________________
४२८
तत्त्वसंग्रहे तेन सामान्यनित्यतेति । यस्मात् स्थित्यादिना न माध्यस्थ्यस्य स्थित्यविनाभावित्वेन, सामान्यस्यापि सुवर्णत्वस्य नित्यता प्रतीयते॥ १७७८ ॥ इत्येतदित्यादिना प्रतिविधत्ते--
.. इत्येतदपि नो युक्तमसामान्याश्रयत्वतः। असामान्याश्रयत्वत इत्येतद्ग्रहणकवाक्यम्। अस्य व्याख्यानम्
उत्पादस्थितिभङ्गानामेकार्थाश्रयता न हि ॥१७७९॥
समानकालताप्राप्तेः परस्परविरोधिनाम्। यदि हि वस्त्वेकमप्युत्पादादिस्वभावेन त्र्यात्मकं स्यात्, तदा युगपत्परस्परविरोधिन उत्पादस्थितिविनाशाः प्राप्नुवन्ति। न च विरोधिनामेकत्र युगपद्भावो युक्तः; अन्यथा हि विरोधित्वमेव न स्यात्। कथं तर्हि मतित्रयस्योत्पत्तिर्युक्तेति चेत् ? यथा युक्ता तथा श्रूयतामिति दर्शयन्नाह
इदं तु क्षणभङ्गित्वे सति सर्वमनाकुलम्॥१७८०॥ . वर्द्धमानकभावस्य कलधौतात्मनः कथम्। अनन्वये विनाशे हि कस्यचिच्छोकसम्भवः॥१७८१॥ सर्वथा पूर्वरूपस्य रुचकस्य तदात्मनः ।
जन्मन्युत्पद्यते प्रीतिर्नावस्थानं तु कस्यचित्॥१७८२॥ . इदम् वर्द्धमानकभावः। स किंविशिष्टः? कलधौतात्मा कलधौतं सुवर्णम्, स एवात्मा स्वभावो यस्येति विग्रहः, तस्य स्वतः स्वरसेन, विनाशें सति कस्यचित्तदर्थिनः शोक उत्पद्यते। अपूर्वस्य तु रुचकाख्यभावस्य तदात्मनः हेमात्मनः जन्मनि-उत्पादे सति, कस्यचिद् रुचकाध्यवसितस्य प्रीतिरुत्पद्यते। न तु कस्यचित् सुवर्णात्मनोऽवस्थानमस्ति; निरन्वयत्वादुत्पादविनाशयोः ॥ १७८०-१७८२॥ [G.503] यद्येवम्, कथं तर्हि माध्यस्थ्यबुद्धिः? इत्याह
शातकुम्भात्मकौ भावौ यदा पश्यति मूढधीः।
समानापरभावेन स्थिरत्वं मन्यते तदा॥१७८३॥ शातकुम्भात्मकौ सुर्वस्वभावौ वर्द्धमानरुचकाख्यौ भावौ क्रमेण यदा पश्यति मूढमतिः। पश्यन्नपि स्वभावविवेकं सदृशापरोत्पत्तिविप्रलब्धः; विवेचयितुमशक्तत्वात्। अत एव समानापरभावेन भ्रान्तिनिमित्तेन विप्रलब्धोऽवस्थाद्वयेऽपि हेम्नः स्थिरत्वं मन्यते । समाना परभावनेति । अहेमव्यावृत्तिमात्रसाधर्म्यण समानस्यापरस्य भावः उत्पादः समानापरभावः॥
कथं पुनरवसीयते-समानापरभावेन विप्रलब्धः स्थिरत्वं मन्यते, न तु पुनर्वस्तुन एव तथाभावात् ? इत्याह
/ हेनोऽवस्थितरूपत्वे तद्रूपं रुचकाद्यपि।
पूर्वोत्तराद्यवस्थासु दृश्येतानेकताऽन्यथा॥१७८४॥ यदि हेम्नः स्थिरत्वं स्यात्, तदा तदव्यतिरिक्तं रुचकाद्यपि वर्द्धमानावस्थासु दृश्येत; १. असमानाश्रयत्वत:- जै० /
२. भाव इति-जै।