________________
५६२
तत्त्वसंग्रहे तेषां कर्ताऽनुमीयेत, श्रुतेरपि तथा न किम् ?॥२४१३॥ तेषमिति आख्यायिकादीनाम्। श्रुतेरपि तथा नकिमिति । वेदस्यापि तथैव सार्थकत्वविभक्तार्थत्वाभ्यां किं न कर्ताऽनुमीयते; विशेषाभावात् । ततश्च प्रमाणाभावोऽसिद्धः ॥२४१३॥
किञ्च सर्वसत्त्वप्रमाणनिवृत्तिः, 'स्वस्य प्रमाणनिवृत्तिर्वा-इति पक्षद्वयम्। तत्राद्ये पक्षे सन्दिग्धासिद्धता हेतोः, द्वितीयेऽप्यनैकान्तिकतेति दर्शयन्नाह
सर्वसत्त्वैरगम्यत्वं सन्दिग्धं तु कदाचन। केनचित् कोऽपि मानेन वेत्तीत्यपि हि शङ्कयते ॥ २४१४॥ येन त्रिभुवनान्तस्थाः सर्वे प्राणभृतः स्फुटम्। ... सर्वात्मनाऽपरिच्छिन्ना: सुनिश्चेतुमिमं क्षमाः ॥ २४१५॥ स्वयं त्वगम्यमानत्वं व्यभिचारि तथा हि ये। ..
पुरुषान्तरसङ्कल्पास्तदभावो न निश्चितः ॥२४१६॥ इममिति। सर्वसत्त्वै वेदस्य कर्ता ज्ञायत इत्येवम्। तथा हीत्यादिना पुरुषान्तरभाविभिश्छात्रादिसङ्कल्पैर्व्यभिचारितामेव समर्थयते ॥ २४१४-२४१६॥
यदुक्तम्- "कर्ता तावददृष्टः" (तत्त्व० २०८७) इति, अस्यासिद्धतां प्रतिपाद
यन्नाह
अध्येतारश्च वेदानां कर्तारोऽध्यक्षतो गताः ।
न हि ते व्यञ्जका युक्ता नित्यानां व्यक्त्यसम्भवात्॥ २४१७॥ [G.660] यदि यः कश्चित् कर्त्ता न दृष्ट इत्यभ्युपगम्यते, तदाऽध्येतृणां दृष्टत्वात् स्फुटतरमवतरत्यसिद्धता। अथादिकर्ता न दृष्ट इतीष्टम्, तदापि सन्दिग्धासिद्धतैव; कदाचित् केनचिद् दृष्टोऽभूदिति सम्भाव्यमानत्वात्। अथापि स्यादध्येतारो न कर्तारः सिद्धाः, किं तर्हि ? व्यक्तार:? इत्याह- न हीत्यादि। त इति अध्येतारः। यथा च नित्यानां व्यक्तेरसम्भवः, तथा पश्चात् प्रतिपादयिष्यति। अनित्यस्यापि घटादेः कथं व्यञ्जक इति चेत् ? सत्यम्; तत्रापि न कश्चिद्व्यञ्जकः सम्भवति। कथं तर्हि दीपादयो व्यञ्जकत्वेन प्रतीता इति चेत् ? न; तत्र हि विज्ञानजनने योग्यं घटं जनयन् प्रदीपादिर्जनक एव। विशिष्टजनकस्वभावख्यापनाय लोके व्यञ्जक इति प्रतीत: । न तु तथा वेदस्य कश्चिद् व्यञ्जक: सम्भवति; अव्यक्तानुत्पन्नपूर्वापरस्वभावत्वात् तस्य ॥ २४१७॥ भवतु नाम नित्यस्य व्यञ्जकः, तथाप्यसौ कारकान्न विशिष्यत इति दर्शयन्नाह
उपलभ्यस्वभावानां तद्व्यापारे समुद्भवः।
तेषां प्रागपि सद्भावे उपलब्धिः प्रसज्यते॥२४१८॥ न ह्यकिञ्चित्करो व्यञ्जको युक्तः; अतिप्रसङ्गात्। किञ्चित्करत्वे जनकत्वमेवास्याभ्युपगतं स्यात्; जन्यमानस्य विशेषस्य स्वभावान्तरोत्पत्तिलक्षणत्वात्। उपलभ्यस्वभावाना१-१. सत्त्वप्रमाणनिवृत्तिर्वेति-जै०, पा० । २. यत्र-गा०। ३-३. स्वनिश्चेतुमिमं क्षम:-जै० ४. ते-पा०, गा०।
५. ०संकल्पास्त०-०। ६-६. निवेदकस्य-जै०। ७. मता:-पा०, गा०।
८. प्रतीयते-पा०, गा०।