________________
श्रुतिपरीक्षा
५६३
मिति वेदानाम् । अथापि स्यात् - प्रागप्युपलभ्यस्वभावा वेदाः स्थिता एव, तत् कथं तद्व्यापारेण सम्भवस्तेषाम् ? इत्याह— तेषामित्यादि । तेषामिति उपलभ्यस्वभावानां वेदानाम् ॥ २४१८ ॥ तत्कार्येत्यादिना प्रमाणयति
" तत्कार्यव्यवहारादियोग्यो
वेदोऽवसीयते ।
तद्व्यापारेऽस्य सद्भावाद् बीजादेरङ्कुरादिवत् ॥ २४१९॥
प्रयोगः - यो यद्व्यापारे सति भवति स तत्कार्यव्यवहारादियोग्यः, यथा बीजादिव्यापारे सति भवन्नङ्कुरादिस्तत्कार्यः । अध्येतृव्यापारे सति भवत्युपलभ्यस्वभावो वेद इति स्वभावहेतुः। हानोपादानलक्षणमनुष्ठानम्=व्यवहारः । आदिशब्देन ज्ञानाभिधानपरिग्रहः । नासिद्धो हेतुः; प्रागप्युपलब्धिप्रसङ्गात् । नाप्यनैकान्तिकः; कार्यव्यवहारस्य निमित्तान्तराभावात्
॥ २४१९ ॥
[G.661] यदुक्तम् ‘“ अदृष्टपूर्वसम्बन्धः " ( तत्त्व० २०८७) इत्यादि ? तत्राह— व्यञ्जनक्रमरूपत्वान्नाट काख्यायिकादिवत् ।
वेदानां
पौरुषेयत्वमनुमाऽप्यवगच्छति ॥ २४२० ॥
प्रयोगः–यद्व्यञ्जक्रमरूपं तत् पौरुषेयम्, यथा नाटकाख्यायिकादि । व्यञ्जनक्रमरूपश्च वेद इति स्वभावहेतुः । नासिद्धो हेतुः; क्रमेणैव वर्णानां प्रतिभासनात् ॥ २४२० ॥ नाप्यनैकान्तिक इति दर्शयन्नाह -
अन्यथा क्रमरूपत्वं नित्यत्वाद् व्याप्तितश्च न ।
नाभिव्यक्तिक्रमश्चास्ति नित्यत्वे व्यक्त्ययोगतः ॥ २४२१ ॥
अन्यर्थेति । यदि पौरुषेयत्वं न स्यांद्, अपितु नित्यत्वं विभुत्वं च वर्ण्येत; तदा क्रमो न स्यात् । तथा हि-न तावद् बीजाङ्कुरलतादिवत् कालकृतः क्रमो युज्यते; नित्यत्वेन सर्वेषां समकालत्वात्। नापि पिपीलिकादिपङ्क्तिवद् देशकृत:; व्यापित्वेन सर्वेषामेकनभोदेशावस्थानात्। नाप्यभिव्यक्तिकृतः; अनाधेयातिशयत्वेन नित्यस्य व्यक्तेरयोगात् ॥ २४२१ ॥ यदुक्तम्- " आगमोऽपि न तत्सिद्ध्यै कृतकाकृतकोऽस्ति न" (तत्त्व० २०८८) इत्यादि, अत्राह
आगमस्योपमायाश्च सार्थापत्तेः प्रमाणता ।
निषिद्धय' प्राक् ततस्तासामुपन्यासो न युज्यते ॥ २४२२ ।। निषिद्धर्येति प्रमाणपरीक्षायाम् । तासामिति आगमोपमानार्थापत्तीनाम् ॥ २४२२ ॥ यदुक्तम् — “ अप्रामाण्यनिवृत्त्यर्था" (तत्त्व० २०९५ ) इत्यादि, अत्राह - वेदस्यापौरुषेयता ।
अप्रामाण्यनिवृत्त्यर्था
'येष्टा, सापि च वस्तुत्वात् साधनीयैव साधनैः ॥ २४२३॥ कथं वस्तुत्वं तस्याः ? इत्याह
श्रुतेः स्वतन्त्रतैषा' हि पुंव्यापारानपेक्षणात् ।
१- १. निषिद्धा० - पा०, गा० । प्रतिषिद्धा तत० - पाठा० । एवमेव पञ्जिकायामपि । २ - २. स्वतन्त्रतैषादि - पा०; स्वतन्त्रतेष्टा हि - गा० ।