SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रुतिपरीक्षा ५६१ समासः। साध्यतेऽनेनेति साधनम् = हेतुः । तच्च नानाविधं पूर्वमुक्तम् । तस्मिन्निति अपौरुषेयत्वादौ। अस्येति वेदस्य । उपगम्यत इति उपपद्यते । व्यासत इति विस्तरेण । एतत्प्रतिक्षेप इति अपौरुषेयत्वादिदूषणे । सत्यपि तस्मिन्नाभिमतार्थासिद्धिरिति प्रतिपादितत्वात् क्रियमाणे तद्दूषणे प्रकृतानुपयोगित्वं स्यात् ॥ २४०६ - २४०८ ॥ एवदेव दर्शयति यथार्थज्ञानहेतुत्वं श्रुतेः न निराकरणेऽप्येतत्सिध्यतीति' आहोपुरुषिकयाऽप्यत्र संक्षिप्तं किञ्चिदुच्यते । विसरन्ति यथाऽनेन मतयः ३ सूक्ष्मधीदृशाम् ॥ २४१० ॥ आहोपुरुषिकर्येति । अहोपुरुष इति यस्याभिमानोऽस्ति सोऽहोपुरुषस्तद्भाव आहोपुरुषिका, मनोज्ञादित्वाद् (पा० सू० ५.१.१३३) बुञ्, अभिमान एवोच्यते । धीरेव दृक्साधर्म्याद् दृक् सा सूक्ष्मा धीदृग्येषां ते तथोक्ताः ॥ २४१०॥ प्रकृतमत्र हि । च साधितम् ॥ २४०९ ॥ यदुक्तम् — “ स पञ्चभिरगम्यत्वात् ". (तत्त्व० २०९४) इत्यादि, तत्राहप्रमाणानां निवृत्त्याऽपि न प्रमेयं निवर्त्तते । यस्माद् व्यापकहेतुत्वं तेषां तत्र न विद्यते ॥ २४११ ॥ अनेनासिद्धतां मौले हेतौ प्रतिपादयति । व्यापको हि स्वभाव: कारणं वा निवर्त्तमानं व्याप्यं कार्यं वा निवर्त्तयति; तादात्म्यतदुत्पत्तिभ्यां तयोस्तत्र प्रतिबद्धत्वात् । तदभावेऽपि भवतः कार्यव्याप्यत्वानुपपत्तेः । न तु तेषां प्रमाणानां तत्र सर्वस्मिन् वस्तुनि व्यापकहेतुत्वे सम्भवतः । तथा हि- देशकालस्वभावात् विप्रकृष्टस्य वस्तुनो विनापि प्रमाणेन सम्भवान्न तेन व्याप्तिः । नापि कारणं प्रमाणमत एव; प्रमाणस्यैव च प्रमेयकार्यत्वात् । न च कार्यं निवर्त्तमानं कारणमात्रं निवर्त्तयति; व्यभिचारदर्शनात् । न चाहेत्वव्यापकयोर्निर्वर्तकत्वं' युक्तम्; अतिप्रसङ्गात्। तस्मात् प्रमाणमात्राभावो व्यभिचारी प्रमेयमात्राभावे साध्य इति स्थितम् ॥ २४११ ॥ [G.659] तामेव व्यभिचारितां विपक्षे सम्भवोपदर्शनेन व्यक्तीकुर्वन्नाह - . तत् पञ्चभिरगम्योऽपि नाभावो नैव गम्यते । कर्त्ता श्रुतेरविज्ञातकर्तृकाख्यायिकादिवत् ॥ २४१२॥ तदिति तस्मात् । पञ्चभिरगम्योऽपीति कर्त्ता श्रुतेरिति व्यवहितेन सम्बन्धः । अविज्ञातः कर्त्ता येषामाख्यायिकादीनां ते तथोक्ताः । पश्चादाख्यायिकादिशब्देन कर्मधारयः, ततः षष्ठ्यन्ताद् वतिः कार्यः ॥ २४१२॥ अथापीत्यादिना हेतोर्व्यभिचारविषयासिद्धिमाशङ्कतेअथापि सार्थकत्वेन विभक्तार्थतयाऽपि वा । १. नराकरणे० पा०, गा० । ३. गतय:- पा०, गा० । ६-६. नाभोवेनैव०- पा०: नाभावोऽस्याव०- गा० । २. आ.... षिका यात्र पा०. आहोपुरुषिका यात्र गा० । ४. देशकालस्वभावा- पा० । ५. ० निवर्तकत्वं- गा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy