________________
५६०
तत्त्वसंग्रहे
कल्पनीय: स्यात् । न चैवम् । तस्मात् कृतकस्य सम्यग्ज्ञानं प्रति हेतुत्वानिषेधाद्भवत्येव धूमः सम्यग्ज्ञाननिबन्धनभित्येतदाशङ्कयाह
एवं चापौरुषेयोऽपि तत्त्वज्ञाननिबन्धनम् ।
वेदः सन्तिष्ठते नैव तद् वृथैवास्य कल्पना ॥ २४०५॥. [G.657] यदि हि सम्यमिथ्यात्वयोरुभयोरपि कृतकता निबन्धनम्, सा निवर्तमाना मिथ्यासम्यग्ज्ञाने निवर्तयतीति न वेदस्याकृतकत्वेन सम्यग्ज्ञानहेतुत्वमवतिष्ठेत; तस्य तत्रानिबन्धनत्वात्। ततश्च व्यर्थं विशेषणमित्यनैकान्तिकतैव हेतोः।।
सथापि स्यात्- नराकृततयेत्यनेन नान्वयिव्यतिरेकी यथोक्तों हेतुः संसूचितः, किं तर्हि ? व्यतिरेकी प्रयोग एवायम्। तथा हि-हेतुविपरीतेन कृतकत्वेन साध्यविपरीतं मिथ्यात्वं व्याप्तम्, पौरुषेयेष्वेव मिथ्यात्वस्य दर्शनात्। ततश्च यत्र मिथ्यात्वव्यापकविरुद्धमकृतकत्वं सन्निधीयते, तत्र विरोधेनाकृतकत्वस्य मिथ्यात्वव्यापकस्य निवृत्तौ व्याप्यस्यापि मिथ्यात्वस्य सामर्थ्यान्निवृत्तिसिद्धिरित्यकृतकं सत्यार्थमिति सामर्थ्याद् भवेद् विनाप्यन्वयेनेति व्यर्थमन्वयप्रदर्शनम् ? सत्यमेवमेतत्, यदि विपर्ययस्य यो व्याप्यव्यापकभावः सिध्येत् ! स तु न सिद्धः । तथा हि-साध्यविपक्षे हेतौ यदि बाधकं प्रमाणं स्यात्, तदा भवेद् विपक्षयोर्व्याप्तिः, तच्च नास्ति। न चानुपलम्भमात्रादभावसिद्धिः; व्यभिचारात्।
स्यादेतत्; अकृतकविरुद्ध कृतके मिथ्यात्वस्य दर्शनात् सामर्थ्यादकृतके तस्याभावः सिध्यतीति ? तदेतदसम्यक्; न ह्येकत्र दृष्ट्याऽन्यत्राभावनिश्चयः शक्यते कर्तुम्; एकस्यापि हि विरुद्धव्यापकदर्शनात् । तथा हि-एकमनित्यत्वं विरुद्धौ प्रयत्नानन्तरीयकेतरौ व्याप्नुवद् दृश्यते । न ह्यनित्यत्वं प्रयत्नानन्तरीयके दृष्टमित्यप्रयत्नानन्तरीयके तस्याभावः स्यात् । किञ्चतत्र दृष्टमित्येतावन्मात्रेण यदि मिथ्यात्वं कृतकत्वेन व्याप्येत, सत्यत्वमपि पौरुषेये क्वचिद दृष्टमिति तदपि तेन व्याप्येत; ततश्च कृतकत्वनिवृतौ मिथ्यात्ववत् सत्यत्वस्यापि निवृत्ते - पौरुषेयत्वात् सत्यार्थत्वं सिध्येदित्यलम् ॥ २४०५ ।।
एवं तावद्यन्मिथ्यात्वहेतुदोषसंसर्गरहितमित्यस्य हेतोः 'नराकृततया' इत्यनेनाक्षिप्तस्याकृतकस्य वा, तदुपलक्षितस्यापौरुषेयत्वस्य वा स्वशब्देनोपात्तस्य विस्तरेणानैकान्तिकतां प्रतिपाद्य असिद्धतां प्रतिपिपादयिपुरुषपसंहरन्नाह
अतश्चापौरुषेयत्वव्यक्ति नित्यत्वसाधनम् । नित्यशब्दार्थयोगश्च व्यर्थ एवोपवर्णितः ॥ २४०६॥ तस्मिन् सत्यपि नैवास्य यथार्थज्ञानहेतुता। उपगम्यत इत्युक्तं व्यासतः समनन्तरम्॥ २४०७॥ तेनैवैतत्प्रतिक्षेपे नास्माकं गुरुरादर: । .
अप्रस्तुतोपयोगस्य को हि कुर्यानिषेधनम्!॥२४०८ ॥ [G.658| अपौरुषेयत्वं च व्यक्तिश्च नित्यत्वं चेत्यपौरुषेयत्वव्यक्तिनित्यत्वानि, तेषां साधनमिति १. .....निबन्धनम्- पा०, सम्यग्ज्ञाने निबन्धनम्- गा०। २. यथा— गा०। ३. ततश्चाo- पा०, गा० । ४. प्रसिद्धतां-पा०। ५-५. व्यर्थ एत:-पा०, गा०। ६. गुरु.....-पा०। ७. प्रस्तुतो०- पा०।