________________
श्रुतिपरीक्षा
५५९ दृष्टा हि दाववढ्यादेर्मिथ्याज्ञानेऽपि हेतुता॥२४०२॥ न हि पुरुषदोषोपधानादेवार्थेषु ज्ञानविभ्रमः; तद्रहितानामपि दाववढ्यादीनां नीलोत्पलादिषु वितथज्ञा जननात् । दाव: वनगतो वह्निः । स पुनर्यः स्वयमेव वेण्वादीनां सङ्घर्षसमुद्भूतः स इह व्यभिच रविषयत्वेन द्रष्टव्यः । यस्त्वरणिनिर्मथनादि पुरुषैर्निवृत्तम्, तत्रापौरुषेयत्वासम्भवात् ततो न हेतोर्व्यभिचार इति भावः । आदिशब्देन मरीच्यादिपरिग्रहः॥ २४०२ ॥ [G.656] तामेव मिथ्याज्ञानहेतुतां दर्शयति
रक्तं नीलसरोजं हि वह्नयालोके सतीक्ष्यते। अथापि स्यात्- नापौरुषेयत्वमेव केवलमस्माभिर्हेतुत्वेन वर्णितम्, किं तर्हि ? अकृतकत्वे सतीति विशेषणम् ?
यद्वा-पौरुषेयग्रहणमकृतकोपलक्षणमतो न दाववह्निना कृतकेन व्यभिचार:?इति मन्यमानस्य परस्योत्तरमाशङ्कयन्नाह
__वयादिः 'कृतकत्वाच्चेत् तद्धेहेतुरुपपद्यते॥ २४०३॥ तद्धेतुः मिथ्याज्ञानहेतुः ।। २४०३ ॥ किं वैकृतकतेत्यादिना परिहरति
किं वैकृतकताऽर्थानां मिथ्याज्ञाननिबन्धनम्। तद्विशेषणं भवंति यद्विपक्षाद्धेतुं व्यवच्छिनत्ति, अन्यथा हि येन केनचिद् विशेषणेन हेतौ यद्यैकान्तिकता लभ्येत तदा न कश्चिदनैकान्तिको हेतुः स्यात्, इच्छाप्रतिबद्धत्वेन सर्वत्र विशेषणस्य सौकर्यात् । न चाकृतकत्वं विशेषणं वेदस्य मिथ्याज्ञानहेतुतां निवर्त्तयति। तथा हि-यदि कृतकता मिथ्याज्ञानहेतुत्वेनं सिद्धा स्यात्, तदा सा निवर्तमाना तामपि निवर्तयेत्। . कदाचित् परो ब्रूयात्-सिद्धैवेति? आह
एवं हि नैव धूमोऽग्नेर्यथावद्योतके भवेत्॥ २४०४॥ · . यदि कृतकता मिथ्याज्ञाननिबन्धनम्, यदा सम्यग्ज्ञानस्याकृतकता हेतुरिति प्राप्तम्', सम्यम् मिथ्याज्ञानयोः परस्परविरुद्धयोरेककारणानुपपत्तेः । न हि वढेरुष्णस्पर्शहेतोः शीतहेतुता युक्ता। ततश्च कृतकत्वाद् धूमो वह्नौ यथावत् प्रतीतिहेतुर्न स्यात् ॥ २४०४ ॥
...' अथापि स्यात्, नैवमवधारितम्- मिथ्याज्ञानस्यैव कृतकता हेतुर्नान्यस्येति, किं तर्हि ? मिथ्याज्ञाने कृतकतैव निबन्धनं नान्यदित्यन्यहेतुकताऽस्य निषिध्यते । न तु सम्यग्ज्ञानस्य कृतकहेतुकत्वनिषेधः । न च सर्वस्य कृतकस्याविशेषेण मिथ्याज्ञानहेतुत्वमिष्टम्। येन परस्परविरुद्धत्वासम्यमिथ्याज्ञानयोः सामर्थ्यात् कृतकविपरीतस्य सम्यग्ज्ञानहेतुत्वं स्यात् । किन्तु कृतकस्य बहुभिन्नत्वात् किञ्चिदेव मिथ्याज्ञानकारणम्, यथा-कामलादि। किञ्चित् सम्यग्ज्ञानकारणम्, यथा-अनुपहतेन्द्रियादिकलापः । अन्यथा हि शीतस्पर्शं प्रति हिमादेः कृतकस्य कस्यचित् कारणत्वोपलम्भात् सामर्थ्याच्छीतविरुद्धोष्णस्पर्शं प्रत्यकृतको हेतुः १-१. तत्र तेन- जै०।
२. सतीष्यते-पा०, गा०। ३. कृतकत्वाच्चेन-पा०, गा०।
४. द्योतकं-पा०, गा०। ५. प्राप्त:-पा०, गा०।
६. यथा चेत्-जै०।