________________
५५८
तत्त्वसंग्रहे तदा हि मोहमानादिदोषोपप्लुतबुद्धिभिः। अन्यथाऽऽख्यायमानोऽपि निजमर्थं न मुञ्चति ॥ २३९४॥ यस्मात् तद्विषयानेव धियमुत्पादयत्यरम्। न त्विष्टं पुरुषैरर्थमपरं द्योतयत्ययम्॥ २३९५ ॥ नरेच्छायां' त्वपेक्षायां पौरुषेयान भिद्यते।
द्योतनं हि तदायत्तं विपर्यस्तापि सा भवेत्॥ २३९६॥ इच्छायाः स्वातन्त्र्यात् तदधीनसङ्केतसापेक्षस्य वेदस्य स्वार्थप्रकाशने नेष्टार्थप्रकाशनं स्यात्; नियमाभावात्। यदा तु तन्निरपेक्षो वेदोऽर्थं बोधयेत्, तदा प्रमाणं युज्येत; पुरुषव्याख्यामनादृत्य क्षिप्रतरं स्वार्थप्रतीतिजननात्। अन्यथा व्याख्यायमानस्यापि चक्षुरादिवत् प्रकृत्यैव स्वार्थप्रकाशनापरित्यागादिति समुदायार्थः । आख्यायमान इति। व्याख्यायमानः । अरमिति क्षिप्रम् । झगितीति यावत्। विपर्यस्तापि सेति नरेच्छा ॥ २३९३-२३९६ ।। [G.655) भवतु नाम स्वाभाविकोऽर्थसम्बन्धोऽपौरुषेयत्वेन वेदस्य, तथापि नेष्टसिद्धिरित्यनैकान्तिकतामेव समर्थयमान आह
अपि चापौरुषेयस्य यथा प्राकृतमिष्यते। सत्यार्थत्वमसत्यत्वमेवमाशयते न किम्॥ २३९७॥ स्वतः सत्यार्थबोधस्य हेतुत्वात् सत्यतास्य हि।
एवं मिथ्यात्वबोधेऽपि हेतुत्वं शङ्कयते स्वतः ॥ २३९८॥ . प्रकृतौ भवं प्राकृतम् स्वाभाविकमित्यर्थः ॥ २३९७-२३९८ ॥
प्रमाणभूतपुरुषकृतत्वमेव प्रामाण्यकारणमास्थीयतां वेदस्य, किं जाड्यसंसूचकेनाकृतकत्वेनेति दर्शयन्नाह
किञ्च वेदप्रमाणत्वे निर्बन्धो यदि वो ध्रुवम्। निर्दोषकर्तृकंत्वादौ तदा यत्नो विधीयताम्॥ २३९९॥ निर्दोषेण हि कर्नाऽयं कृतोऽदोषैः प्रकाशकैः।
द्योत्यमानश्च लोकेऽस्मिन् भूतार्थज्ञानसाधनः ॥ २४०० ॥ निर्दोषकर्तृकत्वादावित्यादिशब्देन व्याख्यातृत्वं गृह्यते ॥ २३९९-२४०० ।। अथ निर्दोषैः कृतव्याख्यातस्यापि कथं प्रामाण्यं सिध्यति? इत्याह
प्रज्ञाकृपादियुक्तानां तथा हि सुविनिश्चिताः।
पौरुषेय्योऽपि सदाचो यथार्थज्ञानहेतवः ॥ २४०१॥ प्रज्ञाकृपादियुक्ततानामित्यादि । यथोक्तं शबरस्वामिना-"यत्तु लौकिकं वचनं तच्चेत् प्रत्यायितात् पुरुषादिन्द्रियविषयं वाऽवितथमेव तद्' (मी० द०, शा० भा० १.१.२) इति। सद्वाच इति शोभनाः ।। २४०१॥ पुनरध्यपौरुषेयत्वस्यानैकान्तिकतां प्रतिपादयन्नाह
न नराकृतमित्यव यथार्थज्ञानकारि तु। १. ०मानो हि-पा०।
३. दयोतमानश्च-पा०, गा० ।
२-२. नरेच्छायास्त्व-पा० गा०।