________________
श्रुतिपरीक्षा
५५७ द्धान्तरालमकृशकृशानुराशिमनुभवतोऽपि भवतः किमिति संशयदोलाविलोलं मनो न भवेत्! ततश्च न किञ्चिदपि ते प्रमाणं स्यादिति परस्याभिप्रायः । प्रयोगः-यः संशयविपर्यासरहितः प्रत्ययः स प्रेक्षावतां प्रमाणव्यहारविषयः, यथा-वहावभ्रान्तचेतसो दाहपाकाद्यर्थिनस्तन्निश्चयहेतुः प्रत्ययः। संशयविपर्यासरहितश्चाग्निहोत्रादिवाक्योद्भवः प्रत्यय इति स्वभावहेतुः । नावलम्बतेत। प्रमाणतामित्यनेन सम्बन्धः । तां कुर्वन्निति। मतिम्॥ २३८६-२३८७॥ नैवमित्यादिना प्रतिविधत्ते
नैवं संशयसञ्जातेविपरीतान्यवाक्यवत्। प्रेक्षावन्तो हि नैतेषां भेदं पश्यन्ति कञ्चन॥२३८८॥ नातीन्द्रिये हि युज्यते सदसत्ताविनिश्चयौ।
निश्चयो वेदवाक्याच्चेदन्यादृग् न किमन्यतः॥ २३८९॥ यदि तावत् प्रेक्षावतां संशयादिरहितः प्रत्ययो वेदवाक्याद्भवतीति हेत्वर्थः, तदा हेतोरसिद्धा। तथा हि-प्रेक्षावताम् 'अग्निहोत्रात्स्वर्गो न भवति' इत्यतो विपरीतान्यवाक्यादिवाग्रिहोत्रात्स्वर्गो भवतीत्यतोऽपि संशयः समान एव; अतीन्द्रियेऽर्थे सदसत्तानिश्चयकारणाभावादर्थसंवादस्योभयत्राप्यनुपलम्भात्। विपरीतान्यवाक्यवदिति । सप्तम्यन्ताद्वतिः । अथापि स्याद्-वेदवाक्यादेव निश्चयो भवति, तत्किमन्येन कारणेन पर्येषितेन? इत्यत आहअन्यादृगित्यादि। वेदार्थविपरीतार्थाध्यवसायी निश्चयः। अन्यतइति पौरुषेयात्। किं न भवति! भवत्येवेति यावत्। ततश्च सापि प्रमाणं स्यात्; उभयोरपि तदानीं बाधाऽनुपलम्भेनाविशेषात्॥ २३८८-२३८९॥ [G.654) अथ प्रेक्षावतां श्रोत्रियाणामकम्प्यो जायते प्रत्यय इत्यतो नासिद्धता हेतोरिति चेत् ? जायताम्; तथापि यदि नामासिद्धता न भवेत्, अनैकान्तिकता तु दुरिति दर्शयति
श्रोत्रियाणां तु निष्कम्प्या बुद्धिरेषोपजायते।
श्रद्धाविवशबुद्धीनां साऽन्येषामन्यतः समा॥२३९०॥ सेति अकम्प्या बुद्धिः। अन्येषामिति बौद्धादीनाम्। अन्यत इति "यागात् प्राणिवधाश्रितापायदुःखसम्भूतिः" इत्यतो वाक्यात्। एतदेव दर्शयति
तथा हि सौगतादीनां धीरकम्प्योपजायते। . अपायदुःखसम्भूतिर्यागात् प्राणिवधान्वितात्॥२३९१॥ अस्याश्च न धियः काचिद् बाधा सम्प्रति दृश्यते।
कचित् कदाच्छिङ्ख्या चेद्वेदवाक्येऽपि सा समा॥२३९२॥ सुबोधम्॥ २३९१-२३९२॥ भूयोऽप्यनैकान्तिकतामपौरुषेयत्वस्य दर्शयति__ नरेच्छाधीनसङ्केतनिरपेक्षो यदि त्वयम्।
वेदः प्रकाशयेत् स्वार्थं प्रमाणं युज्यते तदा॥२३९३॥ १. अकम्पा-पा०, गा०/
२. स्वयम्-पा०, गा० ।