________________
तत्त्वसंग्रहे तीन्द्रियत्वात्। अतीतार्थदर्शिनस्तर्हि तं ज्ञास्यन्तीति चेत् ? इत्याह-अनत्यक्षदृश इत्यादि। तदुक्तम्
"तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते।
वचनेन तु नित्येन यः पश्यति स पश्यति ॥" (तत्त्व० ३१७४) इति। अनत्यक्षदृशः= अनतीन्द्रियार्थादर्शिनः ॥ २३८१-२३८२॥ श्रुतिरेव स्वयमावेदयिष्यतीति चेद् ? आह
'अयं ममार्थसम्बन्धः' इत्याह च न सा श्रुतिः।
नरक्लृप्तोऽर्थयोगस्तु पौरुषेयान्न भिद्यते॥२३८३॥ न ह्येते भवन्तो ब्राह्मणाः 'ममायमर्थो गृह्यताम्' इत्याहूय प्रवृद्धतरकारुण्यः पुण्यैकप्रवणचेताः परहितनिरतः सन् वदान्य इव ब्राह्मणेभ्यः स्वयं स्वार्थमर्पयति वेदपुरुषः । तर्हि स्वयमेवोत्प्रेक्षिष्यन्ते? इत्याह-नरक्लृप्त इत्यादि ॥ २३८३॥ तमेवाभेदं दर्शयति
तद्यथा पौरुषेयस्य शङ्कयते विपरीतता। .
नरैरुत्प्रेक्षितस्यापि सा शङ्कयैव न किं भवेत्।। २३८४॥ अपि नाम सङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णैः यथा पुरुषैः स्वयं प्रयुक्ताः शब्दाः सङ्कीर्यन्ते तथा तैरुपकल्पितार्था अपीति कोऽत्र विशेषः । सेति विपरीतता। शङ्कति शङ्कनीया ॥ २३८४ ॥
पूर्वमप्रामाण्याद् वेदस्य शिष्याचार्यपरम्पराकल्पना व्यर्थेति प्रतिपादितम्। इदानीं भवतु नाम नित्यसम्बन्धद्वारेण प्रामाण्यम्, उभयथा शिष्याचार्यपरम्परोपकल्पना व्यर्थेत्युपदर्शयति
माने स्थितेऽपि वेदेऽत: शिष्याचार्यपरम्परा।
अनादिः कल्पिताऽप्येषा सञ्जाताऽन्धपरम्परा ॥ २३८५॥ यदुक्तम्- 'नरैरुत्प्रेक्षितस्यापि सा शङ्कयैव न किं भवेत्' (तत्त्व० २३८४) इति, अत्र परोऽसम्भवमाशङ्काया दर्शयति
नन्वारेकादिनिर्मुक्ता स्वर्गादौ जायते मतिः । अग्निहोत्रादिवचसो निष्कम्प्याध्यक्षबुद्धिवत्॥२३८६॥ नावलम्बेत तां कुर्वन् कथं वेदः प्रमाणताम्।
न ह्यतो वचनादर्थं सन्दिग्धं वेत्ति कश्चन?॥२३८७॥ [G.653] आरेक:=संशयः । आदिशब्देन विपर्यासो गृह्यते। तथोक्तं भाष्ये शाबरे- "न च स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते-भवति वा स्वर्गो न वा भवतीति । न च विनिश्चितमवगम्यमानमिदं मिथ्या स्यात्। यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः । न चैष देशान्तरे पुरुषान्तरेऽवस्थान्तरे कालान्तरे विपर्येति । तस्मादवितथः" (मी० द०, शा० भा० १.१.२) इति । अन्यथा हि प्रत्यक्षं स्फुटत्स्फुलिङ्गप्रकरप्रसरोपरु१. अतीन्द्रिया०-पा०, गा० ।
२. ०ऽपाकीर्णे- पा०, गा०।