________________
श्रुतिपरीक्षा
५५५ . अनादिः कल्प्यमानापि न दोषत्वाय' कल्पते ॥" (तत्त्व०.२३४९) इति, तदयुक्तमिति दर्शयन्नाह
इत्थं मानेऽस्थिते वेदे शिष्याचार्यपरम्परा। ... अनादिः कल्प्यमानाऽपि नादोषत्वाय युज्यते॥२३७७॥ अस्थित इत्यकारप्रशूषोऽनुद्रष्टव्यः ॥ २३७७॥ कथं न युज्यते? इत्याह
यस्मादेकोऽपि तन्मध्ये नैवातीन्द्रियदृड्मतः।
- अनादिः कल्पिताऽप्येषा तस्मादन्धपरम्परा॥२३७८॥ - यदि नामान्धपरम्परा जाता, ततः किम्? इत्याह
अन्धेनान्धः समाकृष्टः सम्यग्वर्त्म प्रपद्यते।
ध्रुवं नैव तथाप्यस्या विफलाऽनादिकल्पना॥२३७९॥ यथोक्तं शाबरे भाष्ये-"नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, जात्यन्धानामिव वचनं रूपविशेषेषु" (मी० द०, शा०, भा० १.१.२) इति ॥ २३७९ ॥
एवमनादित्वं शिष्यपरम्परया सिद्धमभ्युपगम्य दोषः उक्तः, तदपि न सिद्धमिति दर्शयन्नाह
परतो वेदतत्त्वज्ञा मनुव्यासादयोऽपि च।
तैरेवारचितो नायमर्थ इत्यत्र न प्रमा॥२३८०॥ .: न प्रमेति अत्यन्तपरोक्षत्वात् ॥ २३८० ॥
स्यादेतत्-नावितथज्ञानहेतुत्वादपौरुषेयत्वेन प्रामाण्यमिष्टम्, किं तर्हि ? सत्यार्थानित्याच्छब्दार्थसम्बन्धमात्रात् । स चापौरुषेयतायां सत्यां भवतीति तदत्राप्यनैकान्तिकमेव। को ह्यत्र नियमे हेतुर्यदपौरुषेयेण सत्यार्थेन भवितव्यमिति भवतु नाम, तथापि दोष एवेति दर्शयन्नाह
सत्यार्थनित्यसम्बन्धमात्रात् प्रामाण्यमस्तु वा। अतीन्द्रियं तु तं योगं नैव कश्चिद् व्यवस्यति॥२३८१॥ अतीन्द्रिया यतस्तेऽस्तित्स्थो योगोऽप्यतीन्द्रियः।
अनत्यक्षदृशः सर्वे नराश्चैते स्वतस्सदा॥२३८२॥ सत्यार्थश्चासौ नित्यसम्बन्धश्चेति विग्रहः। कल्पितो हि नित्यः सम्बन्धः, [G.652] यद्यसावर्थप्रतीतिहेतुर्न भवेत् तदा व्यर्थतत्कल्पना । न चान्यत् तस्य रूपम्; अन्यत्रार्थ प्रतीतिजनकत्वात् । इयानेव हि सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननम्, तदकुर्वाणः कथं सम्बन्धः स्यात् ! नाप्यसौ सत्तामात्रेणार्थप्रतीतिहेतुः, किं तर्हि ? ज्ञातः सन्, अन्यथा ह्यगृहीतसमयस्यापि ततः प्रतीतिर्भवेत् । न चासौ ज्ञातुं केनचिच्छक्यते; सम्बन्धिनः स्वर्गादेरतीन्द्रियत्वेन तस्याप्य१-१. निदोर्षत्वाय-पा०, गा० ।
२. प्रश्रोषो०-- गा०। ३-३. न वा पौरुषयतायां-पा०, गा० । ४. व्यर्था तत्कल्पा-पा०, गा० ।