________________
५५४
तत्त्वसंग्रहे
"तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते।
वचनेन तु नित्येन यः पश्यति स पश्यति ॥" (तत्त्व० ३१७४) इति ॥ २३७२॥
स्यादेतत्-वेद एव स्वयं पुरुषव्यापारमनपेक्ष्यास्मै पुरुषाय 'स्वमर्थमावेदयिष्यते, तेनेतरेतराश्रयप्रसङ्गो नावतरति ? इत्याह
वेदो नरं निराशंसो ब्रूतेऽर्थं न सदा स्वतः।
अन्धात्तयष्टितुल्यां तु 'व्याख्यां समपेक्षते ॥ २३७३॥ न हि प्रथमे श्रुतोऽसमयज्ञस्य स्वयं स्वमर्थमावेदयते वेदः। किन्नाम कुरुते? इत्याह– अन्धात्तेत्यादि । अन्धेरात्ता=गृहीता, यष्टिः तया तुल्येति विग्रहः ।। २३७३ ।। अपेक्षताम्; को दोषः? इत्याह- .
स तया कृष्यमाणश्च कुवर्मन्यपि सम्पतेत्। . . .
ततो नालोकवद् वेदश्चक्षुर्भूतश्च युज्यते॥२३७४॥ स इति वेदः। तयेति पुव्याख्यया। कुवम॑न्यपि सम्पतेदिति । विपरीतार्थप्रकाशनात् । ततश्च यदुक्तम्
"तस्मादालोकवद्वेदे,सर्वलोकैकचक्षुषि।
नैव विप्रतिपत्तब्यम्" (ो० वा०, चो० सू० ९५-९६) इति, तदनुपपन्नम् ॥ २३७४॥ स्वतन्त्रस्येत्यादिना प्रकृतमुपसंहरति
स्वतन्त्रस्य च विज्ञानजनकत्वे सति स्फुटम्।
प्रामाण्यमपि नैवास्य सम्भाव्यं पुरुषेक्षणात्॥ २३७५॥ शक्तस्य हि न पुरुषापेक्षया ज्ञानजनकत्वं 'युक्तमिति प्रतिपादितम्। भवतु नाम पुरुषापेक्षया शक्तस्यापि ज्ञानजनकत्वम्, तथापि पुरुषापेक्षणाज्ज्ञानजनकत्वेऽपि, प्रामाण्यमस्य स्फुटं न सम्भाव्यमिति पदार्थयोजना। अपिशब्दो भिन्नक्रमः ज्ञानजनकत्वेऽपीत्यस्यानन्तरं द्रष्टव्यः ॥ २३७५ ॥ अस्यैवार्थं व्यक्तीकुर्वनाह- ..
यथार्थबोधहेतुत्वात् प्रामाण्यं ह्यवकल्पते।
पुंव्याख्यापेक्षणे चास्य न साध्वी मानकल्पना॥ २३७६ ॥ न साध्वी मानकल्पनेति। "स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पतेत्" (तत्त्व० २३७४) इत्यनेन पूर्वमसाधुत्वस्य प्रतिपादितत्वात् ॥ २३७६ ।। [G.651] ततश्च, यदुक्तम्
"प्रमाणेऽवस्थिते वेदे शिष्याचार्यपरम्परा। १. समर्थ- जै०, पा०/
२-२. प्रथमश्रुतो०- पा०, गा०। । ३. पा० पुस्तके नास्ति।
४. पुरुषापेक्षया ज्ञान-पा०, गा० । ५. ज्ञानजनकत्वे सती०-पा०, गा०।