________________
५५३.
श्रुतिपरीक्षा न हि तावत् स्थितोऽप्येष ज्ञानं वेदः करोति नः । यावन्न पुरुषैरेष' दीपभूतैः प्रकाशितः॥२३६५॥ ततश्चापौरुषेयत्वं भूतार्थज्ञानकारणम्। न कल्प्यं ज्ञानमेतद्धि 'व्याख्यानात् प्रवर्तते॥२३६६॥ सत्यप्येषा निरर्थाऽतो वेदस्यापौरुषेयता।
यदिष्टं फलमस्या हि ज्ञानं तत् पुरुषाश्रितम्॥२३६७॥ [G.649) यथार्थज्ञानार्थमस्यापौरुयेषता कल्प्यते। सा च कल्पनाऽपि न पुरुषनिरपेक्षा तज्ज्ञानोत्पादने समर्थेति व्यर्था तत्कल्पना । पुरुषा एव प्रमाणभूताः प्रणेतारो यथार्थज्ञानकारणं सन्त, किमिदानीमपौरुषयतया सिद्धोपस्थायिन्या!॥ २३६५-२३६७॥
अथ मा भूदनित्यत्वप्रसङ्गोऽपौरुषेयत्वकल्पनायाश्च व्यर्थतेति सर्वदैव शक्तो वेदोऽभ्युपगम्यते, तदा पूर्ववद्दोषप्रसङ्ग इति दर्शयति
शक्तश्चेत् सर्वदैवायं तत् किमन्यदपेक्षते।
शक्तैकहेतुभावे तु ज्ञानं स्यादेव तेन वः॥२३६८॥ स्यादेतत्-पुरुषापेक्षायां नापौरुषेयता व्यर्थाः२ यतो यथावस्थित एवार्थः पुरुषैः प्रकाश्यते, नापूर्वः क्रियते। अपूर्वकरणे हि स्वातन्त्र्यमेषामभ्युपगतं स्यात्। ततश्च रागादिभिरुपप्लुता विपरीतार्थां श्रुतिमारचयन्तः केन प्रतिबध्येरन्! तदेतद् व्याख्यायामपि पुरुषैः क्रियमाणायां दोषजातं समानमिति दर्शयन्नाह
स्वतन्त्राः पुरुषाश्चेह वेदे व्याख्यां यथारुचि। . कुर्वाणा: प्रतिबद्धं ते शक्यन्ते नैव केनचित्॥२३६९॥
मोहमानादिभिर्दोषैरतोऽमी विप्लुताः श्रुतेः।। _ विपरीतामपि व्याख्यां कुर्युरित्यभिशङ्कयते॥२३७०॥
अपि च-न वेदार्थस्यातीन्द्रियार्थस्य कश्चित् स्वातन्त्र्येण विज्ञाता नरोऽभ्युपगतो यो वेदार्थमाख्यास्यति । तथा हि-वेदार्थपरिज्ञानद्वारेणातीन्द्रियार्थदर्शित्वमस्य, न स्वातन्त्र्येण, वेदार्थपरिज्ञानं न च नातीन्द्रियार्थदर्शित्वमन्तरेण-इति व्यक्तमवतरति नितरामितरेतराश्रयत्वमिति दर्शयन्नाह
. न चातीन्द्रियदृक् तेषामिष्ट एकोऽपि मानवः ।
स्वर्गयागादिसम्बन्धज्ञानं नैव ह्यचोदनम्॥२३७१॥ अविद्यमाना चोदना अस्येत्यचोदनं ज्ञानम्। चोदनानिरपेक्षमिति यावत् ॥ २३७१। अत्र कारणमाह
__यस्मादतीन्द्रियार्थानां द्रष्टा साक्षान्न चास्ति वः। एतदपि कथम्? इत्याह
वचनेन हि नित्येन यः पश्यति स पश्यति॥२२७२॥ [G.650) तदुक्तम्१. पुरुषैरेव-पा०, गा०।
२-२. व्यायते-पा०, गा०।