________________
५५२
तत्त्वसंग्रहे सदावस्थितहेतुत्वात् तद्यथाभिमते. क्षणे॥२३५९॥ एकविज्ञानकाले वा तजन्यं सकलं भवेत्।
शक्तं हेतुतया यद्वत् तद्विज्ञानं विवक्षितम्॥२३६०॥ ___ यथैव हि प्रकृत्याऽर्थवत्त्वमस्य वेदस्य, तथा मिथ्यात्वमपि सम्भाव्यत इत्यनैकान्तिकतैव हेतोरित्यभिप्रायः। एतच्च पश्चादभिधास्यति। प्रकृत्या च ज्ञानहेतुत्वे सर्वदा युगपच्च तद्भाविज्ञानं प्राप्नोत्यविकलकारणत्वादिति कथमानर्थक्याप्रसङ्गः । प्रयोगः-यदा दविकलकारणं तत्तदा भवत्येव, यथा अभिमतक्षणावस्थायां अग्निहोत्रादिवाक्यसम्भूतं ज्ञानम्। अविकलकारणं च वेदवाक्यहेतुकं सर्वज्ञानं सर्वस्यामवस्थायामिति स्वभावहेतुः ॥ २३५९-२३६० ।। युगपज्ज्ञानप्रसङ्गपक्षे च दोषान्तरमाह
ततः परमतो ज्ञानजन्मशक्तिपरिक्षयात्।
न नित्यः स्यादयं वेदः शक्तौ वा धी: पुनर्भवेत्॥ २३६१॥ तथा हि- यदि युगपदशेषज्ञानान्युत्पाद्योत्तरकालं ततो ज्ञानोत्पादनशक्ते: परिहीयते वेदः, तदा शक्तेरात्मभूतायाः परिक्षयात् क्षयी प्राप्नोति। अथ न परिहीयते, तदोत्तरकालं पुनरपि ज्ञानोत्पत्तिप्रसङ्ग इति न कथञ्चिन्नित्यस्यार्थक्रियासामर्थ्यम् ॥ २३६१ ॥
अथापि सहकारीणि व्याख्यादीनि व्यपेक्षते।
तेषां च क्रमसद्भावात् तद्विज्ञानं क्रमीष्यते॥२३६२॥ [G.648] अथापीत्यादिना यदविकलकारणमित्यस्य हेतोरसिद्धतामाशङ्कते। व्याख्यादीनीत्यादिशब्देन सङ्केतादिपरिग्रहः। तेषां चेति व्याख्यादीनाम् ॥ २३६२ ॥ नैवमित्यादिना परिहरति- ...
नैवं तस्य हि शक्तस्य व्यपेक्षा कीदृशी भवेत्।
तद्योगात् स समर्थश्चेन्नित्यताशेह, का तव!॥२३६३॥ असमर्थो हि परमपेक्षेत ततः समर्थस्वभावोत्पादलिप्सायाम्। यस्तु समर्थस्तस्य न किञ्चित् स्वभाववैकल्यमस्तीति कीदृशी तस्य व्यपेक्षा! अथ प्रागसमर्थ: सहकारिकारणयोगात् पश्चात् समर्थो भवतीत्यभ्युपेयते? तदा जहतु भवन्तो वेदे नित्यताशाम् ॥ २३६३॥ कथम्? इत्याह
प्रागशक्तः समर्थश्च यदि तैः क्रियते पुनः। .
प्रसक्तः पौरुषेयोऽयं ज्ञानाङ्गं हि नराश्रयात्॥२३६४॥ शक्तरव्यतिरेकादिति भावः । व्यतिरेकेऽपि सम्बन्धासिद्धेर्वेदस्य चाकारकत्वप्रसङ्गः२, शक्तेरेव कार्योत्पत्तेरिति वाच्यम्। ज्ञानाङ्गमिति। ज्ञानस्याङ्गं यो भवति वेदः स नराश्रयाजातः, वेदस्वरूपं च नराश्रयानुजातम् ; तच्च वेदाव्यतिरेकात्, सोऽपि जात एव ।। २३६४॥
किञ्च-न केवलं परापेक्षायामनित्यत्वप्रसङ्गः, अपौरुषेयत्वकल्पना च व्यर्था प्राप्नोतीति दर्शयन्नाह१. ०रेके तु-पा०, गा०।
२-२. वेदस्याकारक०-पा०, गा० । ३. वा०-जै० पुस्तके पाठा०।
४. ०याज्जातम्-पा०, गा०।