SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रुतिपरीक्षा ५५१ तत्र प्रज्ञादयः सत्यत्वहेतवः, मिथ्यात्वहेतवस्त्वकृपादय इति यथाक्रम सम्बन्धः । द्वयमिति सत्यत्वमिथ्यात्वे॥ २३५४।। द्वयाभावे सति यत् प्रसज्यते तद्दर्शयति आनीक्यमतः प्राप्तं षडपूपादिवाक्यवत्। अर्थाश्चेत् सम्प्रतीयन्ते क्रियाकारकयोगिनः॥२३५५॥ 'षडपूपा दश दाडिमानि' इत्याद्युन्मत्तकवाक्यवदानर्थक्यं वेदस्य प्राप्तम्। ननु चानर्थक्यं वेदस्य साधयतो बौद्धस्य दृष्टबाधा प्रतिमाया भवेत्। तथा हिअग्निहोत्रात् स्वर्गो भवतीत्यतो वादर्थप्रतीतिः प्रत्यक्षमनुभूयते । सा कथमपोह्यते? इत्याशङ्कय परस्य वचनावकाशं परिहरति एषा स्यात् पुरुषाख्यानादुर्वशीचरितादिवत्। .. __ प्रतिपत्तिरतादर्थोऽप्यस्य प्रकृतितस्तव ॥ २३५६॥ एवं मन्यते-यदि हि स्वातन्त्र्येणानर्थक्यं वेदस्य साध्येत, तदा स्यात् प्रतिज्ञाबाधा, यावता प्रसङ्गापादनमेतत् क्रियते । न च तत्र प्रसङ्गेन प्रतिज्ञाबाधासम्भवः; तत्र प्रतिज्ञायमानस्याभावात्। केवलं परस्यैकव्यापकधर्मनिवृत्त्यापि' व्याप्यनिवृत्तिमनिच्छतोऽनिष्टापत्त्या वचनव्याघातः प्रतिपाद्यते। नापि चेह' दृष्टबाधा। तथा हि- पुरुषव्याख्यानवशादेषा प्रतीतिर्भवेदनर्थकादपि वेदात् । यथा केनचिद् 'अग्निहोत्रात् स्वर्गो भवति' इत्यादिवेदवाक्यस्य भरतोर्वश्यादिचरितमनेनाभिधीयते' इत्यस्मिन्नर्थेऽनभिज्ञाय व्याख्याते पश्चात् तस्य ततो वाक्यात् तदर्थप्रतीतिर्भवत्येव । न च तत्तेनार्थेनार्थवत् । तद्वदियमर्थप्रतीतिः प्रकृत्या निरर्थकादपि वेदाद् भवेदिति कुतो दृष्टबाधाप्रतिज्ञायाः ! ॥ २३५५-२३५६ ॥ ... किञ्च-भवतु नाम मिथ्यात्वहेतोर्दोषस्यैव निवृत्तिः, न गुणस्य, तथापि हेतोरनैकान्तिकत्वमनिवार्यमेबेति दर्शयन्नाह.. दोषाभावेऽपि सत्यत्वं न सिद्धयत्यन्यभावतः। आनर्थक्याख्यंमप्यस्ति तस्माद् राश्यन्तरं परम्॥२३५७॥ [G.647) यदि हि सत्यत्वमिथ्यात्वव्यतिरेकेणं शब्दानां राश्यन्तरं न स्यात्, तदैकराश्यभावे द्वितीयराशिसद्भावो नान्तरीयक: स्यात् । यदा त्वानर्थक्यमपि तृतीयं राश्यन्तरमस्ति, तदा न मिथ्यात्वनिवृत्त्या सत्यत्वनिश्चयः; परस्यापि तृतीयस्यनार्थकस्याविनिवृत्तेः ॥ २३५७॥ अथ सत्यार्थविज्ञानजन्मशक्तः स्वतः स्थितः। वेदो नारो निराशंसः सत्यार्थोऽयमतो मतः॥२३५८॥ स्यादेतत्-यदि वेदे कृपादिगुणहेतुकं सत्यत्वमभ्युपगतं स्यात्, तदा गुणानां पुरुषाश्रितत्वेन पुरुषनिवृत्त्या निवृत्तौ सत्यां मिथ्यात्ववत् सत्यत्वमपि निवर्तेत; यावता स्वत:प्रामाण्याद्वेदस्य प्रकृत्यैव सत्यार्थज्ञानहेतुत्वं न तु पुनर्गुणकृतम्, तेन नानैकान्तिकता हेतोः । नाप्यानर्थक्यप्रसङ्गो वेदस्येत्येतत् परस्योत्तरमाशङ्कय परिहरन्नाह __ यद्येवं सर्वदा ज्ञानं नैरन्तर्येण तद्भवेत्। १. परस्यैव व्यापक०- पा०, गा०। २. पा०, गा० पुस्तकयो स्ति। ३. न वा-गा।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy