________________
५४८
तत्त्वसंग्रहे न चाप्तः पुरुषोऽत्रास्ति तेन वेदाप्रमाणता ॥ २३३७॥ सम्बन्धेत्यादिना प्रतिविधत्ते
सम्बन्धाकरणन्यायाद् वक्तव्या वाक्यनित्यता। दृष्टार्थव्यवहारत्वाद् वृद्ध्यादौ सम्भवेदपि॥२३३८॥ मतिः सामयिकी वेदे न त्वेषा युज्यते यतः।
स्वर्गयागादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः॥ २३३९॥ पदपदार्थयोः सम्बन्धकरणे यो न्याय उक्त:-"श्रोतुः कर्तुश्च सम्बन्धं वक्ता कं प्रतिपदयताम्" (तत्त्व० २२५६) इत्यादिना तत एव वैदिक़वाक्यस्यापि नित्यता वक्तव्या। 'समयात्पुरुषाणां हि गुणवृद्धयादिवन्मतिः' (तत्त्व० २३३६) इत्यत्रामैकान्तिकतामाहदृष्टार्थव्यवहारत्वदित्यादि। "अदेङ्" (पा० सू० १.१.२) आदौ दृष्टेऽर्थे गुणादिव्यवहारात् समयात्तत्र सम्भाव्यत एव प्रतीतिः, न तु वेदे; स्वर्गादेरतीन्द्रियत्वेन समयस्य कर्तुमशक्यत्वात् ॥ २३३८-२३३९॥ - यद्येवम्, आनर्थक्यं तर्हि प्राप्तमस्य? इत्याह- .
न चानर्थकता तस्य तदर्थप्रत्ययोदयात्। . [G.643] तस्येति वेदस्य। 'सङ्घातत्वात्' इत्यत्रापि साधने प्रतिसाधनेनानैकान्तिकतामेव दर्शयन्नाह
सातत्वस्य वक्तव्यमीदृशं प्रतिसाधनम्॥२३४०॥ वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम्।
वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा॥ २३४१॥ ननु च भारताध्ययनेऽपि शक्यमेवं वक्तुम्, यद्भारताध्ययनं तत्सर्वं गुर्वध्ययनपूर्वकम्, यथेदानीन्तनमिति। न चैवं शक्यते कर्तुम्। तस्मात् तद्वदनैकान्तिकता प्रतिसाधनस्य? इत्याशङ्याह
भारते' तु. भवेदेवं कर्तृस्मृत्या तु बाध्यते।
वेदे तु न स्मृतिर्यापि साऽर्थवादनिबन्धना॥२३४२॥ भारतेऽपि भवेदेवं प्रसञ्जनम्, किन्तु तत्र कर्ता व्यासः स्मर्यत इति तया कर्तृस्मृत्या प्रतिज्ञार्थस्य बाधितत्वादप्रसङ्गः । वेदे तु न स्मृतिः । कर्तुरिति शेषः । ननु च वेदेऽपि कर्त्ता स्मर्यत एव, यथा- "अग्निरावश्चक्रुः सामानि सामगिरौ भगवति कपोतके अथर्वानाङ्गिरस:" इत्यत आह- यापि साऽर्थवादनिबन्धति। यापि वेदे कर्तुः स्मृतिः साऽर्थवादनिबन्धना= अर्थपरं वचनम्-अर्थवादः, तनिबन्धनं यस्या सा तथोक्ता । तथा हि-चक्रुरिति न करणार्थपरः करोतिः, किं तर्हि ? स्मरणार्थः । चक्रुः-स्मृतवन्तं इत्यर्थः ।। २३४२ ॥
कथमयमर्थोऽवसितः? इत्याह११. ऽपि-पा० गा०। २.ऽपि जै. पुस्तके पाठा० । ३. पा. गा० पुस्तकयोनास्ति।