________________
श्रुतिपरीक्षा
शबलाकारमेकं हि वस्तु प्राक् प्रतिपादितम् ॥ २३३३॥ पुनरपि साध्यधर्मविकल्पमुखेन दृष्टान्तदोषान् वक्तुकाम आह— अनित्यता विकल्प्यैवं नाशश्चेत् साध्यहीनता । ममान्यस्यां तु भवतामित्येषा दूषणोक्तिदिक् ॥ २३३४॥ यद्यनित्यता' निरन्वयविनाशलक्षणा साध्यत्वेनेष्टा, तदा मम= मीमांसकस्य दृष्टान्ते साध्यविकलता। न ह्यस्माभिरत्यन्तसमुच्छेदो भावानामिष्टः; शक्तिरूपेणावस्थानात् । यद्यपि नाश इति सामान्यशब्दः, तथापि प्रकरणान्निरन्वयविनाशात्मकेऽर्थविशेषेऽस्य वृत्तिर्विज्ञायते; अन्यथा कथं साध्यविकलताप्रसङ्गो दृष्टान्तस्य योक्ष्यते ! ननु चानित्यत्वं नाशित्वम्, 'यद्यात्यन्तिकमुच्येत' इत्यादिना अनित्यता विकल्पितैव, तत्किमिति भूयोऽपि विकल्प्यते ? सत्यम्; सा हि पक्षस्य दोषोद्भावनार्थम्; इदानीं तु दृष्टान्तस्येति विशेषः । अथ न निरन्वयविनाशलक्षणाऽनित्यताभिप्रेता, किं त्वन्यैवाविर्भावतिरोभावलक्षणा ? अत्राह - अन्यस्यामिति । अनित्यतायामिति सम्बन्धः । भवतामिति । साध्यहीनतेति योजनीयम् । तत्रापि दृष्टान्तस्येति शेषः। न हि भवद्भि बौद्धैः साङ्ख्यैरिव सान्वयो विनाश इष्यते। तस्माद् दृष्टान्तस्य साध्यविकलता भवत्पक्षे स्यादित्येष शब्दानित्यत्वसाधनदूषणमार्गे विदुषामाख्यातः, अन्यदपि प्राज्ञैः स्वयमभ्यूह्य कर्त्तव्यम् ॥ २३३४ ॥
पदार्थेत्यादिना परस्य चोद्यमाशङ्कते -
५४७
पदार्थपदसम्बन्धनित्यत्वे साधितेऽपि च ।
नैव चेह प्रमाणत्वं वाक्यार्थं प्रति सिध्यति ॥ २३३५ ॥ समयात् पुरुषाणां हि गुणवृद्ध्यादिवन्मतिः । निष्कारणोऽपि सन्नर्थो याज्ञिकैः परिकल्पितः ॥ २३३६ ॥ अपि चास्य कथावत् तु सङ्घातात् पौरुषेयता ।
11
[G.642] विशिष्टसाधनावच्छिन्नाक्रियाविशेषविधिप्रतिषेघलक्षणो हि वाक्यार्थः, तत्रैव चोदनायाः प्रामाण्यम्, न पदार्थे । ततश्च वेदस्य प्रामाण्ये साध्ये यत् पदपदार्थतत्सम्बन्धानां त्रयाणामपि नित्यत्वंप्रतिपादनम्, तत् प्रकृतानुपयोगि । किञ्च-या या वाक्यार्थप्रतिपत्ति: सा सङ्केतप्रभवा, यथा-" आद्गुणः " ( पा० सू० ६. १. ८७) इत्यादेर्वाक्यात् गुणवृद्ध्यादिमतिः, वाक्यार्थप्रतिपत्तिश्च चोदनावाक्यसमुद्भवेति स्वभावहेतुः । एतदेव दर्शयति - समयादित्यादि । गुणवृद्ध्यादिवदिति । सप्तम्यर्थे वतिः । अस्यैव समर्थनमाह - निष्कारणोऽपीत्यादि । निष्कारणोऽपि=निर्निबन्धोऽपि सन् स्वोत्प्रेक्षया निरङ्कुशया याज्ञिकैराजीविकार्थमेव “अग्निहोत्रं जुहुयात् स्वर्गकामः'' इत्यादिवेदवाक्यार्थः परिकल्पित इति सम्भाव्यम् । किञ्च – यत्सङ्घातरूपं तंत्पौरुषेयम्, यथा नाटकाख्यायिकादिकथा । पदसङ्घातश्च वेद इति स्वभावहेतुः । ततश्च पौरुषेयत्वाद् रथ्यापुरुषवाक्यवदप्रमाणं वेदः स्यात् । आप्तप्रणीतत्वात् पौरुषेयोऽपि प्रमाणं भविष्यतीति चेद् ? आह
९. यद्यप्यनित्यता- जै० /
२. वा पा०, गा० ।