________________
५४६
तत्त्वसंग्रह स इति द्विविधोऽपि निरोधः । मुद्गरप्रहारादिप्रयत्नानन्तरज्ञानो मुद्गरप्रहारादिप्रयत्नानन्तरीयक उच्यते ॥ २३२८ ॥
त्रिभिरित्युक्तम्, तत्र द्वाभ्यां व्यभिचारमुपदर्य तृतीयेनाप्याकाशेन व्यभिचारमुपदर्शयन्नाह
आकाशमपि नित्यं सद् यदा भूमिजलावृतम्। व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥ २३२९॥ प्रयत्नानन्तरं ज्ञानं यदा तत्रापि दृश्यते।
तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम् ॥ २३३०॥ तदपोहेनेति । तस्य भूम्यादेः खननादिकरणभूतैरपनयेन । तत्रेति शब्दे । दर्शनम्=प्रयनानन्तरज्ञानम् ॥ २३२९-२३३०॥ एवं हेतुदोषानभिधाय दृष्टान्तदोषान् वक्तुकाम आह- ...
सपक्षोऽपि विकल्पोऽत्र जात्यर्थे साध्यहीनता। . .
व्यक्तिलक्षणपक्षेऽपि जात्यन्यानन्यकल्पना ॥ २३३१॥ सपक्षः दृष्टान्तः । स किं श्रुत्यर्थोऽभिप्रेतः? आहोस्विद्व्यक्तिः? यदि श्रुत्यर्थः, तदा साध्यनिकलता दृष्टान्तदोषः। तथा हि-श्रुतिः शब्दः, तस्यार्थोऽभिधेयः, स पुनः सामान्य घटत्वादि। न च सर्ववादिनां नित्यमेवेष्टमिति न तत्रानित्यत्वस्य साध्यधर्मस्यानुगमः। क्वचित्- जात्यर्थ इति पाठः । तत्र कर्मधारयः समासः कार्यः । अर्थस्तुल्य एव। .
अथ द्वितीयः पक्षः, तदापि तस्या व्यक्तेदृष्टान्तत्वेनेष्टाया [G.641] जात्यन्यानन्यकल्पना कार्या-किं सा व्यक्तिर्जातेरन्या, आहोस्विदनन्या? यदान्या, तदा दृष्टान्तधर्मिणो मीमांसकं प्रत्यसिद्धिः । न हि मीमांसको वैशेषिकदिवदेकान्तेन व्यक्तेरन्यां जातिमिच्छति । यथोक्तम्"स्थितं नैव तु जात्यादेः परत्वं व्यक्तितो हि नः" (श्लो० वा०, प्र० सू० १४१) इति।
अथानन्यपक्षः, तदा परान् बौद्धादीन् प्रति दृष्टान्तधर्म्यसिद्धिः । न हि परे व्यक्तेरनन्यां जातिं मन्यन्ते।
अथ भेदाभेदविकल्पमवधूय घटो निदर्शनत्वेनोपादीयते, तदाप्यस्मान् प्रति साध्यविकलता दृष्टान्तस्य-इति निदर्शयन्नाह
अन्यत्वे धर्म्यसिद्धेर्नोऽनन्यत्वेऽपि परान् प्रति। अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्मम॥२३३२॥.
अंशो ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मतः। तदिति घटवस्तु । कथम्? इत्याह-अंशइत्यादि । एतस्य हि घटवस्तुनो जातिसंज्ञको भागो नित्यः, इतरस्तु व्यक्तिसंज्ञको ध्वंसी-विनाशी।
स्यादेतत् । कथमेकस्य परस्परविरुद्धं स्वभावद्वयं युक्तम् ? इत्याह१. खननोच्छेदनादिभिः-गा० ।
२. श्रुत्यर्थे-पा०, गा०। ३-३. तच्च-गा।
४. पा० पुस्तके नास्ति। ५. वैशेषिकादिवेकान्तेन-पा०।
६. दृष्टान्तधर्मसिद्धि:-पा०।