________________
श्रुतिपरीक्षा
५४९ अतीतानागतौ कालौ वेदकारवियोगिनौ। कालत्वात् तद्यथा लोके वर्तमान: समीक्ष्यते। २३४३॥ ब्रह्मादयो न वेदानां कर्तार इति गम्यताम्।
'पुरुषत्वादिहेतुभ्यस्तद्यथा प्रकृता नराः ॥२३४४॥ प्रमाणद्वयं सुगमम् ॥ २३४३-२३४४॥
अतश्च गम्यतां व्यक्तममृषा वैदिकं वचः ।
स्वार्थे वकानपेक्षत्वात् पदार्थे पदबुद्धिवत्॥२३४५॥ अतश्चेत्यादिना प्रकृतं सकलमुपसंहृत्य प्रमाणयति। [G.644] यद्यत्र कर्तृभूतवकत्रनपेक्षं ज्ञानमुत्पादयति, तत्तत्र मृषा न भवति, यथा पदार्थे पदम्। कर्तृभूतपुरुषवक्त्रनपेक्षं स्वार्थे प्रत्ययमुत्पादयति वेदवाक्यमिति व्यापकविरुद्धोपलब्धिः; कर्तृभूतपुरुषसापेक्षज्ञानोत्पादकत्वेन मृषात्वस्य व्याप्तत्वात्। तद्विरुद्धं च स्वार्थे वकानपेक्षत्वम्। पदबुद्धिवदिति। पदानामविसंवादिप्रत्ययनिमित्तत्वप्रदर्शनपरमेतत्। न तु पदबुद्धिर्दृष्टान्तत्वेनाभिप्रेता, किं तर्हि ? पदान्येव। तथा हि-अत्र शब्दात्मकः साध्यधर्मी, तस्य चाविसंवादिज्ञानोत्पत्तिनिमित्तत्वेनामृषात्वे साध्ये तथाभूत एव दृष्टान्तधर्मी न्याय्यः; अन्यथा साध्यविकलता दृष्टान्तस्य स्यात् ।
तत्कृतः प्रत्ययः 'सम्यनित्यवाक्योद्भवत्वतः। - वाक्यबुद्धिवदेतच्च सिद्धं नित्यत्वसिद्धितः॥२३४६॥
तथाऽपरः प्रयोगः-यो नित्यवाक्यजनितः प्रत्ययः स यथार्थत्वेन सम्यक्, यथा वाक्यस्वरूपविषयः । नित्यवाक्यजनितश्चाग्निहोत्रादेः स्वर्गादिसंसिद्धिनिश्चय इति स्वभावहेतुः। पूर्वं विस्तरेण नित्यत्वस्य प्रतिपादितत्वान्नासिद्धो हेतुः ॥ २३४६ ॥
'चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः।
कारणाजन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवत् ॥२३४७॥ तथानाप्तप्रणीतोक्तिजन्यत्वाद् बाधवर्जनात्। देशकालादिभेदादावाप्तोक्तिप्रत्ययो यथा ॥२३४८॥
प्रमाणेऽवस्थिते वेदे शिष्याचार्यपरम्परा। ... अनादिः कल्प्यमानाऽपि न दोषत्वाय कल्पते॥२३४९॥
चोदनेत्यादि पूर्वमेव व्याख्यातम्। तथाऽपरौ प्रयोगौ-योऽनाप्तप्रणीतवाक्यजनितः प्रत्ययः', यश्च देशकालनरावस्थाभेदादौ विसंवादरहितः स प्रमाणम्, यथा आप्तवाक्यजनित: प्रत्ययः । तथा चायं चोदनावाक्यजनितः प्रत्यय इति स्वभावहेतुः । प्रथमस्य हेतो सिद्धिः; विस्तरेणापौरुषेयत्वस्य प्रसाधितत्वात्। नापि द्वितीयस्य। यथोक्तम्- "न च स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते-भवति वा स्वर्गो न वा भवतीति । न चासन्दिग्धमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते नैतदेवमिति। न चासन्दिग्धमवगम्यमा१. विवर्जितौ-पाठा०। २. कालो-गा।
३. विद्यानां-पा०, गा०। ४. ततश्च-पा०, गा०। - ५-५. पा० पुस्तके नास्ति।
६. प्रमाणे च स्थिते-पा०। ७-७. पा० पुस्तके नास्ति।
८-८.यत्ययोश्च-पा०।