________________
श्रुतिपरीक्षा
५४३
अथास्माभि मीमांसकैर्योऽभिमत: 'वर्णा एव गकारादयः शब्दो न व्यतिरिक्त: ' इत्येष `पक्षः स्यात्, तथा सति बौद्धादेरेतद् द्वयम् - अप्रसिद्धविशेषत्वं प्रतिज्ञादोषः, आश्रयासिद्धता चहेतुदोष:, आपद्यते । शब्दमात्रमथोच्येत, साध्यधर्मित्वेनेति शेषः । ततश्च शब्दत्वसामान्यं वः=युष्माकमनित्यम्। प्राप्नोतीत्यध्याहार्यम् ॥ २३१२ ॥
तथा हि-मात्रशब्देन सर्वविशेषत्यागे कृते किमपरमन्यत् सामान्याच्छब्दमात्रं भवेत् ! तस्मात् सामर्थ्याद्भवद्भिः शब्दत्वमेवानित्यं प्रतिज्ञातं स्यात् । भवत्वेवमिति चेत् ? नेत्याहअनित्यं तच्च सर्वेषां नित्यमिष्टं विरुध्यते ।
यत् किञ्चिदिह सामान्यं नित्यं सर्वेण कल्प्यते ॥ २३१३ ॥
तथा हि- बौद्धैरप्यन्यापोहवादिभिरुक्तम् – " जातिधर्मव्यवस्थितेः " । अनेनाभ्युपेतबाधादोष उक्तः। तदेव दर्शयति- यत्किञ्चिदिहेत्यादि । यत् किञ्चित् स्वसिद्धान्तानुसारेण सामान्यं व्यवस्थापितं तत्सर्वं सर्ववादिभिर्नित्यमिष्यते; अन्यथा व्यक्तिवदपरापरोत्पत्तेर्व्यक्त्यन्तर्गतावस्थापनात्' तस्य सामान्यरूपतैव हीयेत ॥ २३१३ ॥ [G.637] एवं तावत् साध्यधर्मिविकल्पेन पक्षदोषमुद्भाव्येदानीं साध्यधर्मविकल्पेनोद्विभावयिषुराह -
अनित्यत्वं च नाशित्वं यद्यात्यन्तिकमुच्यते ।
ततोऽस्मान् प्रति पक्षः स्यादप्रसिद्धविशेषणः ॥ २३१४॥
यद्यात्यन्तिकं निरन्वयप्रध्वंसलक्षणं नाशित्वं यत्तदनित्यत्वमिष्टं साध्यत्वेन, तदा अस्मान्= मीमांसकान् कापिलानामिव निरन्वयविनाशित्वविशेषणमसिद्धम्; तिरोभावेऽपि घटादीनां शक्तिरूंपेणावस्थानात् । प्रदीपादावपि लघबो ह्यवयवाः, तदा देशान्तरं लघु लघु प्रयान्तीति मतत्वात् ॥ २३१४॥
यथाकथञ्चिदिष्टा
चेदनित्यव्यपदेश्यता ।
अनभिव्यक्त्यवस्थातः सा हि व्यक्त्यात्मतेष्यते ॥ २३१५ ॥
अथ, यथाकथञ्चिदनित्यव्यपदेशत्वं साधयितुमिष्टम्, तदा सिद्धसाध्यता दोषः । तथा हि-नित्येष्वप्यभिव्यक्त्यनभिव्यक्त्यवस्थापाश्रयेणानित्यव्यपदेश' इष्ट एव ॥ २३१५ ॥
4.
एवं तावद् अनित्यः शब्दः ' इत्येषा प्रतिज्ञा विस्तरेण दूषिता, इदानीमैन्द्रियकत्वादित्यस्य हेतोर्दोषमुद्भावयन्नाह -
केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते ।
जात्या साधितयेदानीं व्यभिचारः प्रतीयते ॥ २३१६ ॥
केवलमैन्द्रियकत्वम्=' कार्यत्वे सति' इत्यादि विशेषणरहितम् । तस्मिन्निर्विशेषणहेतौ सति, जात्या=सामान्येन प्राक् प्रसाधितया, अनैकान्तिको हेतुः ; व्यतिरेकासिद्धेः ॥ २३१६ ॥ स्यादेतत्-यदि नाम प्रतिवादिनो वारे जातेरभ्युपगमाद्व्यतिरेको न सिद्ध:, तथापि बौद्धादेः स्ववादिनो जातेरनभ्युपगमात् सिद्ध एव तत् कथमनैकान्तिकता ? इत्याह१. व्यक्त्यन्तर्गत्यापनात्- o व्यक्त्यन्तर्गत्या पातात् गा० । २. ॰वस्था श्रयेणा पार, गा ।
३. पा. गा० पुस्तकमोर्नास्ति ।