________________
५४४
तत्त्वसंग्रहे असिद्धे पक्षधर्मत्वे यथैव प्रतिवादिनः।
न हेतुर्लभ्यते तद्वदन्वयव्यतिरेकयोः ॥२३१७॥ 'य एव तूभयनिश्चितवाची स एव साधनं दूषणम्' इति न्यायात् तथा पक्षधर्मस्यान्यतरासिद्धौ हेतुर्दुष्टो भवति, तथाऽन्वयव्यतिरेकयोन्यतरासिद्धौ दुष्ट एव । अन्वयव्यतिरेकयोरसिद्धयोरिति वचनविपरिणामेन सम्बन्धः ॥ २३१७ ।। [G.638] यधुभयसिद्धमेव साधनं दूषणं वा, तत् कथं बौद्धं प्रत्यसिद्धया जात्या व्यभिचारोऽभ्यधायि भवता? इत्याह
तत्र यद्यप्यसिद्धा स्याज्जातिः साधनवादिनः।
तावत् तथाप्यहेतुत्वं यावत् सा न निराकृता ॥३३१८॥ यद्यपि बौद्धादेः साधनवादिनो न जातिर्विपक्षत्वेन सिद्धा, तथाप्याशङ्का न निवर्त्तते; तस्याः प्रतिषेद्धमशक्यत्वात्। ततश्च सन्दिग्धविपक्षव्यावृत्तिकतेति भावः ॥ २३१८ ॥ अपरमपि साध्यसाधनयोर्विकल्पान्तरेण दूषणमाह
कार्या चैन्द्रियकत्वादौ किंवस्त्विति निरूपणा।
व्यक्तिभ्योऽनन्यनानात्वभेदाभेदेषु च स्फुटा ॥२३१९॥ आदिशब्देनानित्यत्वपरग्रिहः। तत्र किमात्मकमैन्द्रियकत्वादीति निरूपणा कार्याकिं व्यक्तिभ्योऽनन्यत्? आहोस्विद् व्यतिरिक्तम्। तथा व्यतिरेकपक्षे, तदा भेदेषु च विचारणा कार्या–किं तद्व्यतिरिक्तमपि भिन्नम् ? आहोस्विदभिन्नमेकमेव? इति यावत् ॥ २३१९ ॥
तत्रासाधारणासिद्धसाध्यहीनसपक्षता ।
विकल्पितानुसारेण वक्तव्या चाद्यपेक्षया ॥२३२०॥ तत्राव्यतिरेकपक्षे ऐन्द्रियकत्वस्य हेतोरसाधारणता, व्यक्तेरव्यतिरेकात्; तत्स्वरूपवत् तस्य व्यक्त्यन्तरानुगमाभावात् ।व्यतिरेकपक्षेऽपि मीमांसकस्य व्यतिरेकानिष्टेः प्रतिव्यक्तिभिन्नमभिन्नं वा असिद्धमित्यसिद्धता हेतोः। अत एव भेदाभेदपक्षे दोषो नोक्तः; सिद्धे हि व्यतिरेके तस्यावकाशात्। अनित्यत्वस्यापि व्यतिरेकपक्षे साध्यहीनसपक्षता । दृष्टान्तस्य साध्यविकलतेति यावत्। अव्यतिरेकपक्षेऽपि साध्यहीनतैव दृष्टान्तस्य; व्यक्तेर्व्यक्त्यन्तरानुगमाभावात् ।। २३२० ॥ इदानीम् 'प्रयत्नानन्तरीयत्वात्' इत्यस्य हेतोरनैकान्तिकत्वमाह
प्रयत्नानन्तरं ज्ञानं कृतकानित्यसाधनम् । यत् तत्राप्यस्त्यनेकान्तः क्षणिकव्यतिरेकिभिः ॥२३२१॥
प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधव्योमभिस्त्रिभिः । [G.639] प्रयत्नानन्तरमुपलभ्यमानत्वं हि प्रयत्नानन्तरीयकमुच्यते । तच्च विपक्षोऽपि हेतोरनैकान्तिकत्वान्न कृतकानित्यत्वसाधनम्। तथा हि
बौद्धैः प्रतिसङ्ख्यानिरोधोऽप्रतिसङ्ख्यानिरोध आकाशं चेति त्रिविधमसंस्कृतं वस्तु क्षणिकव्यतिरिक्तमक्षणिकं नित्यं चेष्टम्, तत्र चास्य हेतोवृत्तिरिति दर्शयन्नाह१. वेति-पा०, गा।
२. हेतुर्दृष्टो-जै०। ३-३. तद्व्यतिरिक्तं भिन्नभित्रम्-पा०, गा०। ४. ०व्यतिरेकिण:-पा०। ५. प्रयत्नान्तरोयत्व०-पा०, गा०।।