________________
५४२
तत्त्वसंग्रहे
प्रत्यक्षेण विरुद्धत्वं प्रागेव प्रतिपादितम् ॥ २३०८ ॥
प्रागुक्तो हेतुर्नानाप्रकारः -
प्रागेवेति ।
" देशकालादिभिन्नाश्च गोशब्दव्यक्तिबद्धयः । समानविषयाः सर्वा न वा नानार्थगोचराः ॥ गोरित्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नबुद्धिवत् । "
(तत्त्व० २१२० - २१२१ ) इत्यादिना ।
"किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया ।
विभुत्वं च स्थितं तस्य कोऽध्यवस्येद्विपर्ययम् ॥' ( तत्त्व० २११६ )
इत्यनेन ॥ २३०७-२३०८ ॥
शिष्टानपि पक्षदोषान् हेतुदोषाँश्च काँश्चित् प्रतिपिपादयिषुराह - वक्तव्यं चैष कः शब्दो विनाशित्वेन साध्यते ।
त्रिगुणः पौद्गलो वाऽयमाकाशस्याथ वा गुणः ॥ २३०९ ॥ वर्णादन्योऽथ नादात्मा वायुरूपमवाचकम् । पदवाक्यात्मकः, स्फोटः सारूप्यान्यनिवर्त्तने ।। २३१० ।। एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता ! अप्रसिद्धविशेषत्वमाश्रयासिद्धहेतुना ?
॥ २३११ ॥
सिद्धान्तभेदेन शब्दगतान् विकल्पानाह । तत्र सत्त्वरजस्तमःस्वभावत्वात् त्रिगुणः [G.636] साङ्ख्यैरिष्टः शब्दः । पौद्रलो दिगम्बरैः । पुद्गलाः परमाणव उच्यन्ते, तेषामयं पौद्गलः । तदात्मक इति यावत् । आकाशगुणः काणादैरिष्टः । वर्णव्यतिरिक्तो नादात्मा लौकिकैः । | यथोक्तं पातञ्जले भाष्ये" अथ वा प्रतीतिपदार्थको लोके ध्वनिः शब्दः पा० म० भा०, प० आ०) इति । वायुरूपमवाचकं शिक्षाकारै: । यथाहुः - " वायुरापद्य' शब्दवान् ''इति पदस्फोटात्मको वाक्यस्फोटात्मकश्च वैयाकरणैरिष्टः । तद्यथाऽऽहुः -
"नादैराहितबीजायामन्त्येन ध्वनिना सह ।
"
आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥" ( वा० प० १.८४ ) इति । सारूप्यम्=सादृश्यम्, विन्ध्यवासीष्टम् । बौद्धैरन्यनिवर्त्तनमन्यापोहो वाचकत्वेन य इष्टः ।
तत्र यद्येवं साङ्ख्यादीष्टानामनित्यत्वं साध्यते, तदा सिद्धसाध्यता पक्षदोषः; स्वरूपेणैव निर्दिश्यत इत्यनेन सिद्धरूपस्य निरस्तत्वात्। न च मीमांसकैरीदृशे शब्दे नित्यत्वेन साधयितुमिष्टम् । किञ्च - अस्मान् प्रति त्रिगुणाद्यात्मकस्य शब्दस्य धर्मिणो विशेषस्यासिद्धत्वादप्रसिद्धविशेषत्वं पक्षदोषः, हेतोश्चाश्रयासिद्धतादोषः ; तथाविधस्य धर्मिणोऽसिद्धत्वाद् ॥ २३०९२३११ ॥
अथास्मदिष्टः पक्षः स्यात् स्वयमेतद् द्वयं तव ।
शब्दमात्रमथोच्येत शब्दत्वं वस्तथा सति ॥ २३१२ ।।
१. ० हेतुता - पा०, गा० । २. वायुरापद्यते - गा० । ३. शब्दमान्- पा। ४. नित्यत्वं - पा०, गा०