________________
५४१
मिति । एवं विस्तरेण शब्दानित्यत्वप्रतिज्ञाया अर्थापत्तिप्रमाणबाधितत्वं समर्थ्य, उपसंहरन्नाह - नित्यतायमित्यादि। तस्मादित्युपसंहारोऽत्र द्रष्टव्यः । सर्वेषामिति । न केवलं वर्णस्यार्थप्रतीत्यन्यथानुपपत्त्या नित्यत्वं सिद्धम्, किं तर्हि ? ताल्वादीनां ध्वनीनां च । यथोक्तं भाष्ये“उच्चरितमात्रे हि' नष्टे' शब्दे न चान्योऽन्यानर्थं प्रत्याययितुं शक्नुयात्, अतो न परमार्थमुच्चार्येत । अथ न विनष्ट:, ततो बहुश उपलब्धत्वादर्थोऽवगम्यते' इति युक्तम्" (मी० द० शा० भा० १.१.१७) इति ॥ २३०२ ॥
स्ववचनाभ्युपेतागमप्रतीतिबाधामपि प्रतिज्ञायाः प्रतिपादयन्नाह— स्ववाक्यादिविरोधश्च शब्दानित्यत्वसाधने । प्रतिज्ञोच्चार्यते सर्वा साध्यार्थप्रतिपत्तये ॥ २३०३ ॥ न चानित्या ब्रवीत्येषा स्वार्थमित्युपपादितम् । तेनार्थप्रत्ययापन्नान् नित्यत्वान्नाशबाधनम् ॥ २३०४ ॥ आदिशब्देनाभ्युपेतादिविरोधग्रहणम् । उपपादितमिति । " न चादृष्टार्थसम्बन्धः शब्दो भवति वाचकः (तत्त्व०२२३३) इत्यादिना । तेनार्थप्रत्ययापन्नादिति । अर्थप्रत्ययात्=अर्थप्रतीते:, आपन्नम् = सिद्धम्, अर्थप्रत्ययापन्नम् । अर्थप्रतीत्यन्यथानुपपत्तिसिद्धात् नित्यत्वादिति यावत् ॥ २३०३ - २३०४॥
[G.635] अभ्युपेतबाधामाह
11
अर्थाभिधानसामर्थ्यमभ्युपेत्य च साधयन् ।
पूर्वाभ्युपगतेनापि नाशित्वं बाधते नरः ॥ २३०५ ॥
साधयन्ति साधनमभिधानेनेति सामर्थ्यतभ्यम्; अन्यथा परं प्रति साधयितुमशक्य
त्वात् ॥ २३०५ ॥
श्रुतिपरीक्षा
आगमबाधांमाह -
अर्थप्रतीतिसामथ्र्यैः
प्रतिशास्त्रमुपाश्रितैः ।
आगमेनापि नाशित्वं बाध्यते सर्ववादिनाम् ॥ २३०६ ॥ अर्थप्रतीतौ सामर्थ्यानि यानि शब्दानां तैः । प्रतिभार्थस्य बाधनादित्युपस्कारः ॥ २३०६ ॥
प्रतीतिबाधामाह
सर्वलोकप्रसिद्धया च बाधः पूर्वोक्तया दिशा ।
पूर्वोक्ता दिक् = समनन्तरश्लोकोक्ता । एवं तु पठितव्यम्'अर्थप्रतीतिसामयैः सर्वलोकावधारितैः ।
44
लोकप्रसिद्ध्या नाशित्वं बाध्यते सर्ववादिनाम् ॥” इति । पूर्वोक्तमनुमानादिविरोधं स्मारयन्नाह"अनुमानविरोधोऽपि प्रागुक्तेनैव हेतुना ॥ २३०७ ॥ श्रोत्रजप्रत्यभिज्ञानाच्छब्दाभेदावसायतः ।
१- १. विनष्टे- पा०, गा० । ४. पा० पुस्तके नास्ति ।
२. उपलब्धत्वादर्थागम:- पा०, गा० ।
५. स्मरयन्नाह - जै० 1
३- ३. पाठोऽयं पा०, गा० पुस्तकयोर्नास्ति । ६. ० भेदाध्यवसायत: जै ।