________________
५४०
तत्त्वसंग्रहे __एवं यदि नाम नित्यत्वसर्वगतत्वाभ्यां वर्णानां स्वतः क्रमादयो न सम्भवन्ति, तथापि व्यञ्जकध्वनिगता एते वर्णेष्वर्थप्रतिपत्त्यङ्गमिति विस्तरेण प्रतिपादितम्। साम्प्रतम् "यद्वा कालगता एवैते ध्वन्युपाधिकाः प्रविभागा वर्णेषु गृह्यमाणाः प्रतिपत्त्यङ्गम्' इति पक्षान्तरं दर्शयन्नाह
आनुपूर्वी च वर्णानां ह्रस्वदीर्धप्लुताश्च ये।
कालस्य प्रविभागास्ते ज्ञायन्ते ध्वन्युपाधयः॥ २२९८ ॥ ध्वनयः व्यञ्जका वायवः, उपाधयः-विशेषणभूता येषां कालप्रविभागानां ते तथोक्ताः ॥ २२९८॥ ननु च काल-एको व्यापी नित्यश्चेतीष्टं कालवादिनाम् । यथोक्तम् ।
"व्यापारव्यतिरेकेण परिमाणक्रियावताम्।
नित्यमेकं विभु द्रव्यं कालमेके प्रचक्षते ॥' ( . )इति, तत्कथं तस्य प्रविभागो युज्यते? इत्याह
कालश्चैको विभुर्नित्यः प्रविभक्तोऽपि गम्यते। • वर्णवत् सर्वभावेषु व्यज्यते केनचित् क्वचित् ॥ २२९९ ॥ वर्णेषु व्यज्यमानेषु तस्य प्रत्यायनाङ्गता।
अन्यत्रापि तु सद्भावात् तत्स्वरूपस्य नित्यता॥२३००॥ प्रविभक्तोऽ पीत्यपिशब्द एकोऽपि नित्योऽपि विभुरपि इत्यत्र सम्बन्धनीयः; भिन्नक्रमत्वात् । कथं प्रविभक्त:? इत्याह-वर्णवत् सर्वभार्वेष्विति।
एतदुक्तं भवति-यथैकोऽपि नित्यो गकारादिवर्णो यदा केनचिद् ध्वनिविशेषेण क्वचित् पदार्थे व्यज्यते, तदा प्रविभक्तो गृह्यते; यदा तु वर्णेषु व्यज्यते, तदाऽर्थप्रत्ययाङ्गं भवति । यदि तर्हि प्रविभक्तः, नित्यविभुत्वं कथं तस्यावगतम् ? इत्याह- अन्यत्रापीत्यादि। अन्यत्रापि लताकिसलयादौ [G.634] सद्भावात् सत्तावत् तस्य नित्यत्वं विभुत्वं च सिद्धम् । नित्यताग्रहणमुपलक्षणम् ॥ २२९९-२३०० ॥ .
तस्मान्न पदधर्मोऽपि विनाशी कश्चिदीदृशः।
तेन नित्यं पदं सिद्धं वर्णनित्यत्ववादिनाम्॥ २३०१॥ तस्मादित्यादिना स्वपक्षसिद्धरुपसंहारः। कश्चिदीदृश इति क्रमादिरूपः ।। २३०१ ॥
यदि तर्हि कालधर्मो व्यञ्जकध्वनिधर्मो वा क्रमः, न तु परमार्थतो वर्णधर्मः, तत् कथमस्य प्रत्यायनाङ्गत्वम्, न ह्यन्यधर्मोऽन्यस्य भवति? इत्याह
परधर्मेऽपि चाङ्गत्वमुक्तमश्वजवादिवत्।
नित्यतायां च सर्वेषामर्थापत्तिप्रमाणता॥ २३०२॥ उक्तमिति। "नावारूढाश्च गच्छन्तः" (तत्त्व० २१५०) इत्यादिना । नावारूढवचनं हि सकलयानारूढोपलक्षणम्। अश्वजवादिवदिति । यथा अश्वादिगतो जवस्तदारूढानां पुंसां देशान्तरप्राप्तेर्वृक्षादेश्च गमनप्रतिपत्तेरङ्गं भवति, तथा ध्वनिगतोऽपि क्रमो वर्णस्यार्थप्रत्यायनाङ्ग१. कालविभागानां-पा०, गा०। १. व्यज्यमानस्य- पा०, गा०। ३-३. विभुरपीति- पा०, गा० ।