________________
पुरुषपरीक्षा तद्धीयेत। अथ कृपया परानुग्रहार्थं करोति, तदा नारकादिदुःखिततत्त्वनिर्माणं न कुर्यात्, एकान्तसुखितमेव कुर्यात् ॥ १५६-१५७ ॥
सृष्टेः प्रागनुकम्प्यानामसत्त्वे नोपपद्यते।
अनुकम्पाऽपि यद्योगाद्धाताऽयं परिकल्प्यते॥१५८॥ किञ्च- सृष्टे:=सर्गात् प्रागनुकम्प्यसत्त्वाभावात् किमालम्ब्य तस्याः [G.77] अनुकम्पाया वशादयं धाता-स्रष्टा कल्प्येत ॥ १५८॥
न चायं प्रलयं कुर्यात् सदाऽभ्युदययोगिनाम्।
तददृष्टव्यपेक्षायां स्वातन्त्र्यमवहीयते॥१५९॥ यदि चायमनुकम्पया कुरुते तदा ये देवमनुष्या सदाभ्युदययोगिनस्तेषां किमिति प्रलयं करोति, ये दुःखितसन्ततय आपायिकाः सत्त्वास्तेषामेव कामं करोतु प्रलयमिति भावः । अथापि स्यात्-तेषामनुकम्प्यानां यददृष्टं धर्माधर्मलक्षणं तदपेक्ष्य सुखदुःखसमन्वितं लोकं करोति? नैतदस्ति; एवं हि स्वातन्त्र्यमभ्युपगतं हीयेत। न चापि समर्थस्य काचिदपेक्षा। असामर्थ्य “वाऽपेक्ष्यादेवलोकस्योत्पत्तेस्तत्कारणत्वमस्य हीयते ॥ १५९ ॥
पीडाहेतुमदृष्टं च किमर्थं स व्यपेक्षते।
उपेक्षैव पुनस्तत्र दयायोगेऽस्य युज्यते॥१६०॥ भवतु नाम तस्या दृष्टापेक्षा, तथापि यददृष्टं धर्माधर्मात्मकं पीडाहेतुः, तदपेक्षा कृपालोर्न युक्ता; किन्त्ववधीरणमेव तत्र तस्य कृपापरतन्त्रतया युक्तं कर्तुम्। न हि कृपालवः परदुःखहेतुमेवान्विच्छन्ति; तेषां परदुःखवियोगेच्छयैव प्रवृत्तेः ॥ १६०॥ ... क्रीडार्था तस्य वृत्तिश्चेत् क्रीड़ायां न प्रभुर्भवेत्।
विचित्रक्रीडनोपायव्यपेक्षातः शिशुर्यथा॥१६१॥ अथ नानुकम्पया करोति, किं तर्हि ? क्रीडार्थम्? एतदप्यसम्यक्; एवं क्रीडोत्पादे स्वातन्त्र्यमस्य न स्यात्, सर्गस्थितिप्रलयात्मकस्य विचित्रक्रीडनोपायस्यापेक्षणात् ॥ १६१॥ ... . क्रीडासाध्या च या प्रीतिस्तस्य यदपि साधनम्।
तत्सर्वं युगपत् कुर्याद्यदि तत्कृतिशक्तिमान्॥१६२॥ . . क्रमेणापि न शक्तः स्यान्नो चेदादौ स शक्तिमान्।
. नाविभक्तस्य युज्येते शक्त्यशक्ती हि वस्तुनः॥१६३॥ किं च ये ते विचित्राः क्रीडनोपायाः, तत्कारणा यदि शक्तिरस्यास्ति, तदा युगपदेव कुर्यात् । अथादौ तस्य न शक्तिः, तदा क्रमेणापि न कुर्यात्; अशक्तावस्थाया अविशिष्टत्वात्। न ह्येकस्यैकत्र वस्तुनि शक्तत्वमशक्तत्वं च परस्परविरुद्धं धर्मद्वयं युक्तम्। किमर्थं [G.78] च व्यापारमीदृशमारभत इत्यादि सर्वो विकल्प ईश्वरेऽपि साधारणः।
तेन यदाह प्रशस्तमति:- "परानुग्रहार्थमीश्वरः प्रवर्तते, यथा कृतार्थः कश्चिन् मुनिरात्महिताहितप्राप्तिपरिहारार्थासम्भवेऽपि परहितार्थमुपदेशं करोति, तथेश्वरोऽप्यात्मी१. दुःखितमत्व-पा०, गा०। . २. ०नुकम्पाना०-पा०, गा०। ३-३. यस्या-पा०, गा० । ४-४. यदेव मनुष्या-पा०, गा०। ५. वापेक्ष्यादेव लोकस्य-गा०। ६. तत्कारणे- पा०, गा०।