SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६. पुरुषपरीक्षा अन्य इत्यादिना वेदवादिमतमुपक्षिपति अन्ये त्वीशसधर्माणं पुरुषं लोककारणम्। कल्पयन्ति दुराख्यातसिद्धान्तानुगबुद्धयः॥१५३॥ समस्तवस्तुप्रलयेऽप्यलुप्तज्ञानशक्तिमान् । ऊर्णनाभ इवांशूनां स हेतुः किल जन्मिनाम्॥१५४॥ त एवमाहुः- "पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः [G.76] प्रलयेऽप्य• लुप्तज्ञानातिशयशक्तिः" इति। तथा चोक्तम्- .. .... "ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम्। . प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनाम्"॥( . .)इति। तथा- "पुरुष एवैतत्सर्वं यद्भूतं यच्च भाव्यम्" (ऋ० वे० १०.९०.२) इति। ईशसधर्माणम् ईश्वरतुल्यधर्माणम्; द्वयोरपि विश्वसर्गस्थितिप्रलयनिमित्तत्वात्। एतावाँस्तु विशेष:- ईश्वरव्यतिरिक्तमन्यदप्यात्मादिकं समवाय्यादिकारणमीश्वरकारणकैरिष्यते, पुरुषवादिभिस्तु पुरुष एव कारणम्। विश्वसर्गस्थितिप्रलयनिमित्तभावस्तु द्वयोरपि समानः । दुराख्यातसिद्धान्तानुगबुद्धयइति दुराख्यातसिद्धान्तानुगा बुद्धिर्येषामिति विग्रहः। ऊर्णनाभः= मर्कटकः ॥ १५३-१५४॥ अस्यापीत्यादिना दूषणमारभते अस्यापीश्वरवत् सर्वं वचनीयं निषेधनम्। ईश्वरवदिति षष्ठ्यन्ताद्वतिः । अत्राप्येवं दूषणं वाच्यम्- ... "पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकलत्वतः । गगनाम्भोजवत् सर्वमन्यथा युगपद्भवेत्॥ इत्यादि यदि च- ईश्वरसिद्धये यथा परैः साधनान्युक्तानि, तथैव पुरुषसिद्धये पुरुषवादिभिरुपादीयन्ते; तदा तद्वदेवासिद्धतादिदोषो वाच्यः। अन्यमपि दूषणप्रकारमाह किमर्थं च करोत्येष व्यापारमिममीदृशम्॥१५५॥ प्रेक्षापूर्वकारिप्रवृत्तेः प्रयोजनवत्तया व्याप्तत्वात्-अतः किमर्थमयं पुरुषौ जगद्रचनाव्यापारमीदृशं करोतीति वक्तव्यम् ॥ १५५ ॥ यद्यन्येन प्रयुक्तत्वान्न स्यादस्य स्वतन्त्रता। अथानुकम्पया कुर्यादेकान्तसुखितं जगत्॥१५६॥ 'व्याधिदारिद्रयशोकादिविविधायासपीडितम्। जनं तु सृजतस्तस्य काऽनुकम्पा प्रतीयते!॥१५७॥ यद्यन्येनेश्वरादिना प्रयुक्तोऽनिच्छन्नपि करोति तदाऽस्य यत्स्वातन्त्र्यमभ्युपगतम्, १. आधि-- पा.. गा.।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy