________________
शब्दब्रह्मपरीक्षा
६९
तदात्मज्योतिष्ट्वमत्यक्तपूर्वरूपस्य ब्रह्मणः पश्चादयोग्यवस्थायां कुतः सम्भूतमिति वाच्यम् ! तस्मान्मिथ्याप्रवादोऽयं शब्दब्रह्मवादो भवतामित्यलं बहुना ॥ १५१ ॥
प्रधानेत्यादिना पूर्वोक्तं दूषणमार्गमिहाप्यतिदिशतिप्रधानपरिणामेन समं च ब्रह्मदर्शनम् ।
तद्दूषणानुसारेण बोद्धव्यमिह दूषणम् ॥ १५२ ॥
तथैवं दूषणं वाच्यम्
"न शब्दजन्यं तत्कार्यं सत्तातो हेतुवित्तिवत् ।
अतो नाभिमतो हेतुरसाध्यत्वात् परात्मवत्” ॥ इत्यादि ॥ १५२ ॥
इति शब्दब्रह्मपरीक्षा ॥