________________
६८
तत्त्वसंग्रहे विदन्ति ब्रह्मणो रूपं ज्ञाने व्यापृत्य सङ्गतेः॥१५१॥ यदि हि ज्ञाने योगजे तस्य व्यापारः स्यात्, तदा योगिनस्तस्य रूपं पश्यन्तीति स्यात्, यावता यथोक्तेन प्रकारेण ज्ञाने तस्य व्यापाराभावादयुक्तमेतत्। स्यादेतत्-न तद्विषयज्ञानोत्पत्त्या योगिनस्तं पश्यन्ति; तद्व्यतिरिक्तस्य योगिनो योगिज्ञानस्य चाभावात्, किन्तु योगित्वावस्थायां स्वमात्मानं ज्योतीरूपं तत्प्रकाशमानं योगिनस्तं पश्यन्तीति? उच्यते; यद्येवम्, प्रागयोगित्वास्थायां किं तस्य रूपमिति वाच्यम्! यदि सदैव ज्योतीरूपम्, तदा तर्हि न कदाचिदयोगित्वावस्थाऽस्ति; सदैवात्मज्योतीरूपत्वाद् ब्रह्मणः । ततश्चायत्नतः सर्वेषां मोक्षप्रसङ्गः।
__ अथापि स्यात्-यथा भवतां स्वप्राद्यवस्थासु ज्ञानमद्वयमपि विचित्राकारपरिग्रहेण प्रतिभासते, तथा तदद्वयमप्यविद्यावशादविशुद्धसन्ततीनां तथा प्रकाशत इति ? तदसम्यक्; न हि तद्व्यतिरेकेणान्ये केचिदविशुद्धसन्ततयः सन्ति, येषां तत्तथा प्रतिभासते। स्वयमेव तथा प्रतिभासत इति चेत् ? एवं तर्हि मोक्षाभावप्रसङ्गः; सर्वदैव ब्रह्मणोऽद्वयरूपप्रतिभासात्मकत्वात्। अस्माकं तु विशुद्धज्ञानान्तरोदयान्मुक्तिर्युज्यत एव । न चापि भवतां तद्व्यतिरेकिण्यविद्यास्ति, यद्वशात् तत्तथा प्रतिभासत इति स्यात् । अव्यतिरेके चाविद्यायास्तद्वशात्तदेव तथा प्रतिभासत इति सुव्याहृतमेतत्।
____ अथापि स्याद्-अविद्यावशान्न ख्यातीत्यनेनाविद्यात्मकत्वमेव तस्य ख्याप्यत इति? यद्येवम्, सुतरां मोक्षाभावप्रसङ्ग एव ख्यापितो भवति। न हि नित्यैकरूपे ब्रह्मण्यविद्यात्मके स्थिते सति तदात्मिकाया अविद्याया व्यपगमः सम्भवति, येनाविद्याव्यपगमान्मुक्तिर्भवेत् । अथ व्यतिरिक्ताऽविद्याऽङ्गीक्रियते? एवमपि नित्यत्वादनाधेयातिशयस्य ब्रह्मणः [G.75] सा न किञ्चित् करोतीति न युक्तमविद्यावशात् तथा प्रतिभासनम्। ततश्चाविद्यया सह तस्य सम्बन्धाभावात् संसाराभावप्रसङ्गः । न चापि सा तत्त्वान्यत्वाभ्यां निर्वक्तुं शक्यत इति युक्तं वक्तुम्; वस्तुधर्मस्य गत्यन्तराभावात्। अन्यथा वस्तुत्वमेव न स्यात्। न चावस्तुवशात्तथा तस्य ख्यातिर्युक्ता; अतिप्रसङ्गात्। तथाभूतस्य चार्थक्रियाकारिणः स्वभावस्यावस्थितिनामकरणेन 'नास्ति विवादः । अस्माकं तु वितथाभिनिवेशवासनैवाविद्या, सा च वासना शक्तिरुच्यते। शक्तिश्च कारणात्मकज्ञानात्मभूतैवेति। तेन पूर्वपूर्वतः कारणभूतादविद्यात्मनो ज्ञानादुत्तरोत्तरकार्यज्ञानस्य वितथाकाराभिनिवेशिन उत्पत्तेरविद्यावशात् तथाख्यातिर्युक्ता।
तस्याश्चाविद्याया योगाभ्यासादसमर्थतरतमक्षणोत्पादक्रमेण व्यपगमात् परिशुद्धज्ञानसन्तानोदयादपवर्गप्राप्तिरित्यतो बन्धमोक्षव्यवस्था युक्तिमती। न त्वेवं भवतां सम्भवति; नित्यैकरूपत्वाद् ब्रह्मणोऽवस्थाद्वयसम्भवात् । एकत्वाच्च तस्य ब्रह्मण एकस्य मुक्तौ सर्वेषां मुक्तिप्रसङ्गः, एकस्यामुक्तौ सर्वेषाममुक्तिप्रसङ्गश्चानिवार्यः।
न चाप्ययोगित्वावस्थायामात्मज्योतीरूपत्वेऽस्य किञ्चित् प्रमाणमस्ति। प्रसाधकं ज्ञानं हि प्रकाशात्मतया स्वसंवेदप्रसिद्धम्, न त्वेवं शब्दात्मा सर्वत्र प्रत्ययात्मनि संवेद्य इति निर्दिष्टमेतत् । अथायोग्यवस्थायामात्मज्योतिष्वमस्य नाङ्गीक्रियते, एवमपि प्रागविद्यमानं १. ब्रह्मत्यर्थः।
२. 'न' इति पा० गा० पुस्तकयो स्ति। ३-३. सा तत्किञ्चित्-पा०; सा न तत्किञ्चित- गा० । ४. नोऽस्ति-गा०/