________________
शब्दब्रह्मपरीक्षा
न तत्प्रत्यक्षतः सिद्धमविभागमभासनात् ।
नित्यादुत्पत्त्ययोगेन कार्यलिङ्गं न तत्र न ॥ १४७॥ धर्मिसत्त्वाप्रसिद्धेस्तु न स्वभावः प्रसाधकः।
तस्मादविभागं शब्दमयं ब्रह्म न प्रत्यक्षतः सिद्धम् ; तस्य तथाभूतस्याप्रतिभासनात् । नाप्यनुमानतः। तथा ह्यनुमानं भवत्कार्यलिङ्गं भवेत् ? स्वभावलिङ्गं वा ? अनुपलब्धेस्तु प्रतिषेधविषयत्वाद्विधावनधिकार एव । तत्र न तावत् कार्यलिङ्गम, नित्यात् कस्यचित् कार्यस्यानुपपत्तेः, क्रमयौगपद्याभ्यां नित्यस्यार्थक्रियाविरोधात् । नापि स्वभावलिङ्गमस्ति; तस्यैव ब्रह्माख्यस्य धर्मिणोऽसिद्धेः । न ह्यसिद्धे धर्मिणि तत्स्वभावभूतो धर्मः स्वातन्त्र्येण सिध्येत् । अन्यत्तर्हि लिङ्गं भविष्यति ? इत्याह
न चैतदतिरेकेण लिङ्गं सत्ताप्रसाधकम् ॥ १४८ ॥ स्वभावकार्यव्यतिरेकान्यस्य साध्यार्थप्रतिबन्धाभावात् । न चाप्रतिबद्धं लिङ्गं युक्तम्; अतिप्रसङ्गात् । तदपि च शब्दरूपान्वयत्वं भावानामुक्तम्; तदसिद्धत्वादलीकत्वाच्च न शब्दरूपत्वं पारमार्थिकं ब्रह्मणः साधयितुमलम् ।
नाप्यागमात्तस्य सिद्धिः; तस्यानवस्थितत्वात् । यद्यप्यनुपलम्भाख्यमस्ति लिङ्गम्, तत्तु स्वभावहेतावेवान्तर्गतमिति भावः । यद्वा - सत्ताप्रसाधकस्य विवक्षितत्वात् । अत एवाहसत्ताप्रसाधकमिति ॥ १४७-१४८ ॥
44
अपि च
44
'ज्ञाममात्रार्थकस्र्णेऽप्ययोग्यं ब्रह्म गम्यताम्' । तदयोग्यतया रूपं तद्ध्यवस्तुत्वलक्षणम्”॥ (प्र० वा० २.५०)
इत्येतत् प्रतिपादयन्नाह—
-
६७
ज्ञानं ज्ञेयंक्रमात् सिद्धं क्रमवत् सर्वमन्यथा । यौगपद्येन तत्कार्यं विज्ञानमनुषज्यते ॥ १४९॥ ज्ञानमात्रेऽपि नैवास्य शक्यरूपं ततः परम् ।
भवतीति प्रसक्ताऽस्य वन्ध्यासूनुसमानता ॥ १५० ॥ [G.74] एतच्च पूर्वमीश्वर परीक्षायां प्रसाधितम् । ततः परमिति । त्यागादाननिबन्धनान्नीलादेः ३ परमन्यदित्यर्थः । यदि वा - तत इति निगमनम् । परमिति तात्त्विकम् । वन्ध्यासूनुसमानतेति । न हि वन्ध्यासूनोरवस्तुत्वव्यवस्थायामर्थक्रियासामर्थ्यविरहव्यतिरेकेणान्यन्निबन्धनमस्ति
॥ १४९-१५० ॥
अथेदमुच्यते - तं तु परमं ब्रह्मात्मानमभ्युदयनिः श्रेयसफलधर्मानुगृहीतान्त: करणा योगिन एव पश्यन्तीति ? तदपि नोपपद्यत इति दर्शयति
विशुद्धज्ञानसन्ताना योगिनोऽपि ततो न तत् ।
१ - १. ' अयोग्यमत एव तत्'- इति तत्रस्थः पाठः ।
३- ३. गा० पुस्तके द्विरावृत्तोऽयं पाठो मुद्रणप्रमादादिति ध्येयम् ।
२. शक्ररूपं- पा० ।