________________
तत्त्वसंग्रहे न हि भावानां परमार्थे नैकरूपानुगमोऽस्ति; सर्वेषां स्वस्वभावव्यवस्थिततया समानजातीयव्यावृत्तस्वभावत्वात्. काल्पनिकं तु विजातीयव्यावृत्तिकृतमेकाकारानुस्यूतत्वमेषां व्यवस्थाप्यते। यथा घटशरावोदञ्चनादिषु परमार्थतो भिन्नेष्वप्यमृदात्मकपदार्थव्यावृत्तिकृतो मृदात्मा कल्प्यते तत्र, तदपि काल्पनिकमेषां नीलादीनां शब्दाकारानुस्यूतत्वं न सम्भवति। न हि नीलपीतादिषु शब्दरूपमुपलभामहे, अनुपलभमानाश्च कथमशब्दात्मकव्यवच्छेदकृतं शब्दाकारानुस्यूतत्वं कल्पयामः ! तस्मादबीजेयं कल्पनेत्यसिद्धो हेतुः ॥ १४२-१४३॥
यदुक्तम्-"सर्वेषामेकदेशत्वमेकाकारा च विद्भवेत्" (तत्त्व० १३६) इति, तत्र परमतमाशङ्कते
अथाविभागमेवेदं ब्रह्मतत्त्वं सदा स्थितम्। . .
अविद्योप्लपवाल्लोको विचित्रं त्वभिमन्यते? ॥१४४॥ . अथापि स्यात्-अविभक्तमेव सदा ब्रह्मात्मकं तत्त्वमविकारि परमार्थतोऽवस्थितम्। न तस्य परमार्थेन परिणामः, किन्त्वविद्यातिमिरोपहतबुद्धिलोचना नीलादिभेदेन विचित्रमिव मन्यन्ते। यथोक्तम्
"यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः। सङ्कीर्णमिव . मात्राभिश्चित्राभिरभिमन्यते॥ तथेदममृतं ब्रह्म · निर्विकारमविद्यया।
कलुषत्वमिवापन्नं भेदरूपं. विवर्त्ततः"॥ ( ) इति। तेन सर्वेषामेकदेशत्वप्रसङ्गो न भविष्यति; तेषामवस्तुरूपत्वात्। संविद्रेदश्च भविष्यति, अविद्योपप्लवकृत्वात्तस्येति भावः ॥ १४४॥ [G.23] तत्रापीत्यादिना प्रतिविधत्ते
तत्रापि वेद्यते रूपमविद्योपप्लवैर्जनैः । यन्नीलादिप्रकारेण त्यागादाने निबन्धनम्॥१४५॥ तद्रूपव्यतिरिकेण · ब्रह्मरूपमलक्षितम्।
कथं व्यत्थितचेतोभिरस्तित्वेन प्रतीयते॥१४६॥ प्रमाणवशाद्धि प्रमेयसत्ताव्यवस्थितिः, न चैवंरूपस्य ब्रह्मणः सिद्धये किञ्चन प्रमाणमस्ति । तथा हि- न तावत् प्रत्यक्षतस्तस्य सिद्धिः, न हि नीलादेहिताहितप्राप्तिपरिहाराधिष्ठानाट्यतिरिक्तमपरं शब्दरूपं प्रतिभासते, अप्रतिभासमानं च कथं तद्युत्थितचेतोभिायमार्गावस्थितैरस्तित्वेन प्रतीयताम् !॥ १४५-१४६ ॥
स्यादेतत्-स्वसंवेदनप्रत्यक्षत एव तत्सिद्धम्; ज्ञानात्मरूपत्वात्, तथा हि ज्योतिस्तदेव शब्दात्मकत्वाच्चैतन्यरूपत्वाच्चेति? तदेतत् स्वसंवेदनविरुद्धम्। तथा हि-अन्यत्र गतमानसोऽपि चक्षुषा रूपमीक्षमाणोऽनादिष्टाभिलापमेव नीलादिप्रत्ययमनुभवतीति । एतच्च विस्तरेण प्रतिपादयिष्यते। एतेन यदुक्तम्- "न सोऽस्ति प्रत्ययो लोके" (वा० प० १.१२३) इत्यादि, तदपि प्रत्युक्तं भवति। १. ब्रह्मरूपं-पा०, गा०।
२. ०ऽनाधिष्ठा-पा०।