________________
शब्दब्रह्मपरीक्षा
अथ प्रतिव्यक्ति भेदोऽस्य शब्दात्मनोऽङ्गीक्रियते, तदा ब्रह्मणोऽनेकत्वं प्राप्नोति; विभिन्नानेकभावात्मरूपत्वात्। विभिन्नोऽनेकभावात्मा=अनेकपदार्थस्वभावः, रूपम्= [G.71] स्वभावो यस्येति विग्रहः, तद्भावस्तत्त्वम् । एकं च परमब्रह्मेष्यते, अतोऽभ्युपेतबाधा प्रतिज्ञाया इति भावः ॥ १३७ ॥
दूषणान्तरमप्याह
-
नित्यशब्दमयत्वे च भावानामपि नित्यता ।
तद्यौगपद्यतः सिद्धेः परिणामो न सङ्गतः ॥ १३८ ॥
नित्यशब्दमयत्वे=नित्यशब्दस्वभावत्वे । जगतः शब्दः स्वरूपं चेद् भावानामपि नित्यत्वं प्राप्नोति । ततश्च सर्वकालं भावानां शब्देन सह यौगपद्यतः सिद्धेः सिद्धत्वात्, परिणामात्मा न प्राप्नोति । तदिति तस्मादर्थे', तेषां वा नीलादीनां यौगपद्यं तद्यौगपद्यमिति विग्रहः ।। १३८ ।।
अथ यौगपद्यतः सिद्धस्यापि कस्मात् परिणामो न भवति ? इत्याह
ह्यन्यरूपसमुद्भवे।
नापि द्वितीयः पक्षो युज्यत इति दर्शयन्नाह-
-
एकरूपतिरोभावे
मृदादाविव संसिध्येत् परिणामस्तु नाक्रमे ॥ १३९ ॥ नाक्रमे तु वस्तुनि परिणामः सिध्येदिति भिन्नक्रमस्तुशब्दः । एवं तावत् परिणामकृतं शब्दमयत्वं भावानां न युक्तम्॥ १३९॥
अथापि कार्यरूपेण शब्दब्रह्ममयं जगत् ।
: तथापि निर्विकारत्वात्ततो नैव क्रमोदयः ॥ १४० ॥
६५
एवमपि शब्दस्य नित्यत्वेनाविकारित्वात् ततः क्रमेण कार्यादयो न प्राप्नुवन्ति' । सर्वेषामविकलाप्रतिबद्धसामर्थ्यकारणाद् युगपदेवोत्पादः स्यात् । कारणवैकल्याद् कार्याणि परिलम्बन्ते तच्वेदविकलं तत् किमपरमपेक्षेरन्, येन युगपन्न भवेयुः ! ॥ १४० ॥ अन्यान्यरूपसम्भूतौ तस्मादेकस्वरूपतः।
विवृत्तमर्थरूपेण कथं नाम तदुच्यते ! ॥ १४१ ॥
१. तस्मादित्यर्थे— पा० गाए ।
३. प्रतिलम्बन्ते- पा०. गा।
अपि च- यदि तस्मादेकस्वभावाच्छब्दात्मनोऽन्यान्यस्य स्वभावस्योत्पत्तिरङ्गीक्रियते, तदा तद् ब्रह्म विवृत्तमर्थरूपेमेत्येतन्न सिध्येत्, न ह्यर्थान्तरस्योत्पादेऽन्यस्य तत्स्वभावमनाविशतस्ताद्रूप्येण विवर्तो युक्तः । तस्मात् सर्वथापि प्रतिज्ञार्थो नावकल्पते ॥ १४१ ॥ ‘शब्दाकारानुस्यूतत्वात्' इति च हेतुरसिद्ध इति दर्शयन्नाह
अतद्रूपपरावृत्तमृद्रूपत्वोपलब्धितः
1
• कुम्भकोशादिभेदेषु मृदात्मैकोऽत्र कल्पते ॥ १४२ ॥ नीलपीतादिभावानां न त्वेवमुपलभ्यते । अशब्दात्मपरावृत्तिरबीजा कल्पनाऽपि तत् ॥ १४३ ॥ २. प्राप्रोति पा०, गाल ।
[G.72]