________________
६४
तत्त्वसंग्रह नोकस्यैकदैकप्रतिपत्रपेक्षया ग्रहणमग्रहणं च युक्तम्; एकत्वहानिप्रसङ्गात् । अन्यथा हि यदि 'विरुद्धधर्माध्यासोऽप्येकत्वं स्यात्, तदा कल्पित इष्टो व्यक्तिभेदः, सोऽपि न भवेत्। न केवलं ब्रह्मणः स्वरूपभेदो नास्तीत्यपि शब्दः; यतस्तस्य स्वात्मनि व्यवस्थितस्य नास्ति भेदः, विकारविषयत्वादस्येति सिद्धान्तः। तथा हि-न घटाद्यात्मना तस्यानादिनिधनत्वमिष्यते, किं तर्हि ? परमात्मना घटादयो हि दृश्यमानोदयव्ययाः परिच्छिन्नादेशाश्चोपलभ्यन्त इति । अयं च 'अश्रुतेः स्पष्टं शब्दसंवेदनं स्यात्' इति यः प्रसङ्ग उक्तः, स [G.70] यदि ब्रह्मणो रूपमुपलब्धिलक्षणप्राप्तमिष्यते, तदा द्रष्टव्यः । यदि पुनः ‘अतिसूक्ष्मम्', 'अतीन्द्रियम्' इति वर्ण्यते, तदाऽयमदोषः। किन्तु नीलादीनामपि ताद्रूप्यात् तत्स्वरूपवदग्रहणप्रसङ्ग इत्ययं दोषो वाच्यः। ततश्चायं नियमो नोपपद्येत। उदयव्ययवतीमेवार्थमात्रामपरदर्शना: प्रतियन्तीति।
स्यादेतद्-यथा भवतां क्षणिकत्वं नीलाद्यव्यतिरिक्तं नीलादिसंवेदनेऽपि न संवेद्यते, तद्वच्छब्दरूपमिति? तदेतदसम्यक्; न हि नीलादिसंवदने क्षणिकत्वं न संवद्यते, किन्तु गृहीतमपि निर्विकल्पेन चेतसा भ्रान्तिनिमित्तेन गुणान्तरसमारोपान्न विनिश्चीयते इत्युच्यते। तेनानुभवापेक्षया तद् गृहीतमेव, निश्चयज्ञानापेक्षया त्वगृहीतमिति ज्ञानभेदेनैकस्य गृहीतत्वमगृहीतत्वं चाविरुद्धमेव। न चैवं भवतां पक्षे शब्दस्य ग्रहणाग्रहणे युक्ते; सर्वज्ञानानां सविकल्पकताभ्युपगमात्। एकेनैव ज्ञानेन सर्वात्मना तस्य निश्चितत्वात्, अगृहीतस्वभावान्तरानुपपत्तेः । यथोक्तम्
"निश्चयैः। यन्न निश्चीयते रूपं तत्तेषां विषयः कथम् ॥" (प्र० वा०, ३. ५७) इति । अथ किञ्चिदविकल्पमपि ज्ञानमभ्युपगम्यते? न तर्हि वक्तव्यम्-"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते" (वा०. पा० १.१२३) इति। शब्दाकारानुस्यूतत्वादिति च हेतुर्न सिध्येत्, ततश्च प्रमाणाभावाच्छब्दात्मकत्वव्यवस्थानं भावानामनिबन्धनमेव स्यात् । किञ्चक्षणिकत्वं भावानां प्रमाणान्तरतः सिद्धरनुभूतमपि न निश्चीयत इति व्यपदिश्यते । शब्दात्मता तु भावानां कुतः सिद्धा येन साऽप्येवं व्यवस्थाप्यते!॥१३५॥ अपरमपि दूषणमार्गमाह
प्रतिभावं च यदयेकः शब्दात्मा भिन्न इष्यते।
सर्वेषामेकदेशत्वमेकाकारा च विद् भवेत्॥१३६॥ स हि शब्दात्मा परिणामं गच्छन् प्रतिपदार्थं भेदं वा प्रतिपद्यते? न वा? तत्र यदि न भिन्न इति पक्षः, तदा सर्वेषां नीलादीनामेकदेशत्वं प्राप्नोति। एकदेशत्वमित्युपलक्षणम्। कालपरिणामव्यापारावस्थाविशेषाद्यपि-ग्राह्यम्। एकाकारा च, वित्-प्रतिभासः, भवेत्=प्राप्नोति; सर्वेषां नीलादीनामेकशब्दरूपाव्यतिरेकात् ॥ १३६ ॥
प्रतिव्यक्ति तु भेदेऽस्य ब्रह्मानेकं प्रसज्यते।
विभिन्नानेकभावात्मरूपत्वाद् व्यक्तिभेदवत्॥१३६॥ १. ०धर्माध्यासे० पा०, गा०।
२. पर्वाग्दर्शना इत्यर्थः।