________________
शब्दब्रह्मपरीक्षा अथाप्यनन्तरः पक्षः, तत्र नीलादिवेदने।
अश्रुतेरपि विस्पष्टं भवेच्छब्दात्मवेदनम् ॥१३१॥ ते वाच्या इत्यादिना प्रतिज्ञार्थं तावद् दूषयति।
अत्र कदाच्छिब्दपरिणामरूपत्वाद्वा जगतः शब्दमयत्वं साध्यत्वेनेष्टम्, कदाचिच्छब्दादुत्पत्तेर्वा, यथा- 'अन्नमयाः प्रणाः' इति; हेतौ मयड्विधानात्। अत्र न तावदाद्यः पक्षः; परिणामस्यैवानुपपत्तेः । तथा हि-शब्दात्मकं ब्रह्म नीलादिरूपतां प्रतिपद्यमानं कदाचिन्निजं स्वाभविकं शब्दरूपं परित्यज्य प्रतिपद्येत? अपरित्यज्य वा? तत्र यदि 'परित्यज्य' इत्याद्यः पक्ष आश्रीयते, तदा 'अनादि निधनम्' (वा० प० १.१) इत्यनेन वचनेन यदक्षरत्वमविनाशित्वमभ्युपगतं तस्य हानिः स्यात्; पौरस्त्यस्वभावविनाशात् । अथ अपरित्यज्य' इत्यनन्तरः पक्षः, तदा नीलादिसंवेदनकालेऽप्यश्रुतेर्बधिरस्य शब्दसंवेदनं प्राप्नोति, नीलादिसंवेदनवत्तदव्यतिरेकात्। प्रयोगः– यद्यदव्यतिरिक्तं तत्तस्मिन् संवेद्यमाने संवेद्यते, यथानीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा,. नीलादव्यतिरक्तश्च शब्द इति स्वभावहेतुः। अन्यथा भिन्नयोगक्षेमत्वात् तत्स्वभावत्वमेव प्रसिध्येत्- इत्येतदत्र बाधकं प्रमाणम् [G.69] ॥ १२९-१३१॥ एतदेव विस्तरेण प्रतिपादयन्नाह. येन शब्दमयं सर्वं मुख्यवृत्त्या व्यवस्थितम्।
शब्दरूपापरित्यागे परिणामाभिधानतः॥१३२॥ येन यस्मात्, भवद्भिर्मुख्यत एव शब्दस्वभावं जगदिति वर्ण्यते। कस्माद् ? इत्याहशब्दरूपापरित्याग इति ॥ १३२॥ .. यदि नाम मुख्यतः शब्दमयमवस्थितम्, ततः किम्? इत्याह
. अगौणे चैवमेकत्वे नीलादीनां व्यवस्थिते।
. तत्संवेदनवेलायां कथं नास्त्यस्य वेदनम् ॥१३३॥ एकत्वे नीलादीनामिति । शब्देनं सहेति शेषः । तत्संवेदनवेलायामिति । तेषां नीलादीनां संवेदनावस्थायाम्।. कथं नास्त्यस्य वेदनमिति। तस्यापि नीलादिस्वभाववदुपलब्धिलक्षणप्राप्तत्वाद् युक्तमेव संवेदनमित्यभिप्रायः ॥ १३३ ॥
अस्यावित्तौ हि नीलादेरपि न स्यात् प्रवेदनम्।
एकात्म्याद्भिन्नधर्मत्वे भेदोऽत्यन्तं प्रसज्यते ॥१३४॥ अथास्य वेदनं नेष्यते, तदा नीलादेरपि शब्दस्वरूपवदसंवेदनप्रसङ्गः। ऐकात्म्यात्, शब्देन सह नीलादीनामेकस्वभावत्वादित्यर्थः । अन्यथा नीलादीनां शब्देन सह भिन्नधर्मत्वेऽभ्युपगम्यमानेऽत्यन्तभेदोऽङ्गीकर्तव्यः ।। १३४॥ कस्मात् ? इत्याह
विरुद्धधर्मसङ्गो हि बहूनां भेदलक्षणम्।
नान्यथा व्यक्तिभेदानां कल्पितोऽपि भवेदसौ ॥१३५ ॥ १. तावद्' इति पा०. गा० पुस्तकयोस्त्रुटितः।
२. शब्द: संवेदनं- पा०.गा।
.