________________
५. शब्दब्रह्मपरीक्षा ___नाशोत्पादेत्यादिना 'शब्दब्रह्मवादिमतमुपक्षिप्य दूषयति
नाशोत्पादासमालीढं ब्रह्मा शब्दमयं परम्।
यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते ॥१२८॥ । तत्र' शब्दब्रह्मवादिनो ब्रुवते-पूर्वापरादिविभागरहितमनुत्पन्नमविनाशि यच्छब्दमयं ब्रह्म तस्यायं रूपादिर्भावग्रामः परिणाम इति प्रतीयते। यथोक्तम्
"अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्। . . ...
विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः"॥ (वा० प० १.१) इति। तत्र आदिः उत्पादः, निधनम्=नाशः, तदभावादनादिनिधनम् अक्षरमिति; अकाराद्यक्षरस्य निमित्तत्वात्। एतेनाभिधानरूपेण विवर्तो दर्शितः । अर्थभावेनेत्यादिना पुनरभिधेयविवर्त्तः । प्रक्रियेति भेदाः । ब्रह्मेति नामसङ्कीर्तनम्। . ..
__ अस्यैव श्लोकस्यार्थं निर्दिशति-नाशोत्पादासमालीढमिति। नाशोत्पादग्रहणमुपलक्षणम्। इदमप्यत्र बोद्धव्यम्-पूर्वापरदेशविभागरहितमिति । तथा हि-अनादिनिधनत्वं पूर्वापरदेशविभागरहितत्वमपि तत्र निर्दिष्टम्। शब्दमयमिति शब्दस्वभावम् । अत एव शब्दस्तत्त्वमस्य शब्दतत्त्वं तदुच्यते। शब्दोऽस्याविपरीतं रूपमित्यर्थः । परमिति [G.68] प्रणवात्मकम्।
प्रणवो हि किल सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः, स च वेदः । अयं तु वर्णपदक्रमेणावस्थितो वेदस्तदधिगमोपायः, तस्य प्रतिछन्दकन्यायेनावस्थितः । तं तु परमं ब्रह्माणमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्त:करणा: पश्यन्तीति ।
अत्र च प्रमाणयन्ति-ये यदाकारानुस्यूतास्ते तन्मयाः, यथा-घटशरावोदञ्चनादयो मृद्विकारा: मृदाकारानुगताः पदार्था मृण्मयत्वेन प्रसिद्धाः। शब्दाकारानुस्युताश्च सर्वभावा इति स्वभावहेतुः; यतः प्रत्यक्षत एव सर्वार्थानां शब्दाकारानुगमः सिद्धः । तथा हि-सर्वर एव प्रत्ययोऽर्थेषूपजायमानः शब्दोल्लेखानुगत एवोपजायते । यथोक्तम्
"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं शब्देन वर्त्तते"।
(वा० प० १. १२३) इति । ज्ञानाकारनिबन्धना च वस्तूनां स्वभावप्रज्ञप्तिः । अतः सिद्धमेषां शब्दाकारानुस्यूतत्वम्, तत्सिद्धौ च तन्मयत्वमपि सिद्धमेव; तन्मात्रभावित्वात्तन्मयत्वस्येति ॥ १२८॥
इति सञ्चक्षते येऽपि, ते वाच्याः किमिदं निजम्। . शब्दरूपं परित्यज्य नीलादित्वं प्रपद्यते ॥१२९६ न वा तथेति, यद्याद्यः पक्षः संश्रीयते तदा।
अक्षरत्ववियोगः स्यात् पौरस्त्यात्मविनाशतः ॥१३०॥ १-१. पा०, गा० पुस्तकयो स्ति। २. करणाः' इति पा० पुस्तके नास्ति। ३.शब्द-पा०, गा० ।