________________
स्वाभाविकजगद्वादपरीक्षा
६१ यद्येवम्, कथमयमाचार्यैर्विभाग: कारकाज्ज्ञापकस्य क्रियते? अत्र च ज्ञानवशादर्थनिर्देशः, नोत्पादकवद्भूतार्थवशादित्याह
साध्यानुत्पादकत्वात्तु कारको न प्रकाश्यते ॥१२६ ॥ साध्यानुत्पादकत्वादसौ ज्ञापक उच्यते, न कारक इति।यस्तु साध्यास्याङ्करादेरुत्पादक: स कारक [G.67] उच्यत इत्यदोषः । एतेन सर्वेण यदार्यसूरोक्तदूषणस्योपरि चोद्यमापतति तत्प्रतिविहितं भवति। तथाहि तत्रेदं चोद्यं भवति-न हेतुरस्तीति सहेतुकं वदन्नपि किमिति सादयेत्, स हि ज्ञापकं हेतुं ब्रूते, कारकंतु प्रतिक्षिपतीति? तदत्रोत्तरम्-ज्ञापकोऽपि कारक एव ज्ञानहेतुत्वादिति । एतेन स्ववचनविरोध उद्भाव्यते। न त्वहेतुत्वसाधकः कश्चिद्धेतुरस्ति; व्याप्तेः प्रत्यक्षादिबाधितत्वात्॥ १२६ ॥
तस्मात् सहेतवोऽन्येऽपि भावा नियतजन्मतः। . साध्यार्थविषयं यद्वज्ज्ञानं साधनभावि ते ॥१२७॥ तस्मादित्यादिनोपसंहारव्याजेनानुमानबाधितत्वं च प्रतिज्ञार्थस्य दर्शयति। अन्येऽपीति। साध्यार्थविषयज्ञानव्यतिरेकिणो राजीवकेसरादयः। नियतजन्मत इति। नियतपदार्थसन्निधाने सतीति शेषः। प्रयोगः-ये नियतपदार्थसन्निधाने सति नियतजन्मानः; ते सहेतुकाः, यथा भवत्साधनसन्निधानभाविसाध्यार्थविषयं ज्ञानम्, तथा च राजीवादयो भावा इति स्वभावहेतुः ॥ १२७॥
इति स्वाभाविकजगद्वादपरीक्षा॥
१. ०चार्यसूर्युक्त०-पा०, गा०; ०चार्यसूर्योक्त०- जै०।