________________
तत्त्वसंग्रहे
नैवंविधइति । न कारणम्, नापि व्यापकम् । न ह्यप्रतिबद्धस्य निवृत्त्याऽन्यस्य नियमेन निवृत्तिर्युक्ता ; अतिप्रसङ्गात् । एवं हि अश्वनिवृत्तौ गोरपि निवृत्तिः स्यात् ॥ १२१ ॥ सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी । 'विन्ध्यादिरन्ध्रदूर्वादेरदृष्टावपि
६०
सत्त्वतः ॥ १२२ ॥
अपि चानुपलब्धेर्हेतुत्वेनोपादीयमाना सर्वपुरुषोपलम्भनिवृत्तिलक्षणा वोपादीयते ? स्वोपलम्भनिवृत्तिलक्षणा वा ? न तावदाद्या; तस्या अर्वाग्दर्शनेन निश्चेतुमशक्यतया सन्दिग्ध[G.66] त्वात्। न हि सर्वैः पुरुषैर्मयूरचन्द्रिकादीनामदृष्टं कारणं नोपलभ्यत इत्यत्रार्वाग्दर्शिनः किञ्चिदस्ति प्रमाणम्। याऽपि स्वेनादृष्टिः सा व्यभिचारिणी, कस्मात् ? गिरिकुहरान्तर्गतस्य दूर्वाप्रवालशिलाशकलादेरनुपलब्धस्यापि सत्त्वतः, सत्त्वाविरोधादित्यर्थः । तन्न निश्चितमेवासत्त्वम्; सन्देहात् ॥ १२२॥
अहेतुकत्वसिद्धयर्थं न चेद्धेतुः प्रयुज्यते ।
न चाप्रामाणिकी' सिद्धिरतः पक्षो न सिध्यति ॥ १२३ ॥ तत्सिद्धये च हेतुश्चेत् प्रयुज्येत तथापि नं। सिद्धेस्तद्धेतुजन्यत्वात् पक्षस्ते : सम्प्रसिध्यति ॥ १२४॥ अपि चैवं भवान् पर्यनुयोज्यः - किं 'निर्हेतुका भावा:' इत्यस्य स्वपक्षस्य सिद्धये भवता हेतुः कश्चिदुपादीयते ? आहोस्विन्न ? तत्र यदि नोपादीयते, तदा पक्षस्ते न सिध्यति; न हि प्रमाणमन्तरेणार्थस्य सिद्धिरस्ति । अथोपादीयते ? तथापि न हि पक्षस्ते सम्प्रसिध्यतीति वक्ष्यमाणेन सम्बन्धः । कस्मात् ? सिद्धेस्तद्धेतुजन्यत्वात् - प्रमेयार्थविषयायाः सिद्धेर्निश्चयस्य तेन हेतुना जन्यमानत्वात् । तथा चोक्तमार्यसूरपादैः ३.
"न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञां स्वयमेव सादयेत् । अथापि हेतुः प्रणयालसो भवेत् प्रतिज्ञया केवलयास्य किं भवेत् ॥
(जा० मा० २३.२७) इति ॥१२३-१२४॥ स्यादेतत्—ज्ञापको हेतुर्मया प्रयुज्यते, न कारकः, तत्कस्मात् पक्षो मे न सिध्यति ?
इत्याह
-
तथा हि ज्ञापको हेतुर्वचो वा तत्प्रकाशकम् ।
सिद्धेर्निमित्ततां गच्छन् साध्यज्ञापकमुच्यते ॥ १२५ ॥
ज्ञापको हेतुरिति त्रिरूपं लिङ्गं स्वार्थानुमानकाले । वचो वेति परार्थानुमानकाले । तत्प्रकाशकमिति तस्य हेतोः प्रकाशकम् । सिद्धेरिति प्रमेयार्थनिश्चयस्य । अन्यथा यदि सिद्धेरपि निमित्तभावं न यायात्, तदा कथं "तज्ज्ञापकं भवेत् ! एवं हि सर्वं सर्वस्य ज्ञापकं प्रसज्येत ॥ १२५ ॥
अतः कारक एवायं ज्ञापको हेतुरुच्यते ।
१. विन्ध्याद्रि०- पा०, गा० ।
३. ० मार्चासूरिपादै:1:- पा०, गा० ।
५. न पा०, नु- गा० ।
२. चाप्रामाणिका - जै०; चाप्रमाणिकी- गा० ।
४. ' हापयेत्' इति तत्रस्थः पाठः ।