________________
स्वाभाविकजगद्वादपरीक्षा तदपेक्षा तथावृत्तिरपेक्षा कार्यतोच्यते।
पत्यक्षा च तथा वृत्तिः सिद्धास्तेनेह हेतुवः॥११७॥ तदन्यदेशादिपरिसरेण नियते देशादौ या वृत्तिः, इयमेव 'अपेक्षा' इत्युच्यते, न त्वभिप्रायात्मिका। स्यादेतद्-यदि नाम तदपेक्षा तेषाम्, तथापि तत्कार्यता' कथमवसिता? इत्याह-अपेक्षा कार्यतोच्यत इति । न ह्यन्या तत्कार्यता, किं तर्हि ? येयं तथावृत्तिलक्षणा सैव तत्कार्यतोच्यते। सा च तथावृत्तिरेषां कथं सिद्धा? इति चेदाह-प्रत्यक्षेत्यादि ॥११७॥
तत्स्वाभाविकवादोऽयं प्रत्यक्षेण प्रबाध्यते।
प्रत्यक्षानुपलम्भाभ्यां हेतुरूपस्य निश्चयात् ॥११८॥ तदिति तस्मात् । तेषु वा राजीवादिषु स्वाभाविकवाद इति समासः । प्रत्यक्षेण प्रबाध्यत इति । अनुपलम्भस्याप्यन्योपलम्भतया प्रत्यक्षात्मकत्वात् । यत् पुनः सुखादीनामहेतुकत्वसाधनाय 'कादाचित्कत्वात्' इति साधनमुक्तम्, तत्साध्यविपरीतसाधनाद् विरुद्धम्; अहेतोरनपेक्षस्य कादाचित्कत्वानुपपत्तेः । दृष्टान्तस्य च साध्यविकलतेति भावः ॥११८॥ एवं तावत् प्रत्यक्षविरुद्धत्वं प्रतिज्ञार्थस्य, हेतोश्चासिद्धतोद्भाविता। साम्प्रतमभ्युपगम्य [G.65] हेतोः सिद्धिमनैकान्तिकत्वं प्रतिपाद्यन्नाह
मा वा प्रमाणसत्ता भूद्धेतुसद्भावसिद्धये।
तथापि मानाभावेन नैवार्थासत्त्वनिश्चयः॥११९॥ यद्यनुपलम्भमात्रं हेतुत्वनोपादीयते, तदानैकान्तिकता; यतो मानाभावेन प्रमाणाभावमात्रेण हेतुना नैवार्थसत्ताया अभावनिश्चयः ॥ ११९ ॥
कस्मान्न भवति? इत्याह- . ... यस्मादर्थस्य सत्ताया व्यापक न च कारणम्।
प्रमाणं भेदसद्भावाद् व्यभिचारात्तदुद्भवात् ॥१२०॥ व्यापको हि स्वभावो निवर्तमानः स्वं व्याप्यं निवर्त्तयति, कारणं वा कार्यम्; तत्र तादात्म्यतदुत्पत्तिभ्यां व्याप्यकार्ययोः प्रतिबद्धत्वात्। न च प्रमाणमर्थसत्ताया व्यापकम्; कस्मात्? भेदसद्भावात् । अभिन्न एव हि व्यापको भवेत्, यथा-वृक्षत्वं शिंशपायाः; भिन्नस्य कारण एवान्तर्भावात् । न च प्रमाणमर्थसत्तयोरभेदः; भिन्नाभासत्वात्। नापि प्रमाणमर्थस्य कारणम्; व्यभिचारात्, प्रमाणमन्तरेणापि भावात्। तथा हि-देशकालस्वभावविप्रकृष्टानामर्थानां प्रमाणेनाविषयीकृतानामपि सत्त्वमविरुद्धमेव। न च येन विनाऽपि यद् भवति, तत्तस्य कारणं युक्तम्; अतिप्रसङ्गात् । कारणत्वाभ्युपगमे वा स्वपक्षपरित्यागः । तदुद्भवाच्च न प्रमाणमर्थसत्ताकारणम् । तथा हि-अर्थादेव विषयभूतात् प्रमाणमुद्भवति। न पुनः प्रमाणात् प्रमेयोऽर्थः ॥१२०॥
अथापि स्याद्-अप्रतिबद्धमपि प्रमाणमर्थसत्ताया निवर्तकं भविष्यति? इत्याह__ यश्च नैवंविधो भावस्तस्य नैव निवृत्तितः।
.. ऐकान्तिकमसम्बन्धाद् गम्यतेऽन्यनिवर्त्तनम्॥१२१॥ १. सत्कार्यता-जै०। .
२. ०पलम्भनतया-पा०,गा। ३-३. पाठोऽयं पा०, गा० पस्तकयो स्ति।