________________
तत्त्वसंग्रहे सरोजकेसरादीनामन्वयव्यतिरेकवत् . । अवस्थातिशयाक्रान्तं बीजपङ्कजलादिकम् ॥११३॥ प्रत्यक्षानुपलम्भाब्यां निश्चितं कारणं तदा।
किमित्यन्यस्तदा हेतुरमीषां परिपृच्छ्यते ॥११४॥ अनेन हेतोरसिद्धिं प्रत्यक्षविरोधं च प्रतिज्ञार्थस्य दर्शयति। यदुक्तम्-"राजीवकेसरादीनां कारणं नोपलभ्यते" (तत्त्व० १११) इति तदसिद्धम्; प्रत्यक्षानुपलम्भाभ्यां बीजपङ्कजलादेरन्वयव्यतिरेकवतः कारणत्वेन निश्चितत्वात्। तथा हि-यस्मिन् सत्येव यस्य जन्म भवति, यस्य च विकाराद्यस्य विकारः, तत्तस्य कारणमुच्यते । तच्चैवम्भूतं बीजादिकमुच्छूनादिविशिष्टावस्थाप्राप्तं राजीवकेसरादीनाभन्वयव्यतिरेकवत् भावाभाववत् प्रत्यक्षानुपलम्भाभ्यां निश्चितमित्यसिद्धो हेतुः।
___ यच्चाप्युक्तम्-"कार्यकारणलक्षणं व्यभिचारि" (तत्त्व० पृ० ६९-७०) इति, तदप्यसिद्धम्: स्पर्शस्यापि नीरूपहेतुतया' चक्षुर्विज्ञानेऽपि निमित्तभावस्येष्टत्वात् । तथा हिस्पर्श इति भूतान्युच्यन्ते, तानि चोपादायोपादाय रूपं वर्तते, ततश्चक्षुर्विज्ञानं प्रति स्पर्शस्य निमित्तभावोऽस्त्येव । केवलं साक्षात्-पारम्पर्यकृतो विशेषः।
___ न चापि व्यतिरेकमात्रमस्माभिः कार्यकारणभावनिश्चयहेतुत्वेनाभ्युपगतम्, किं तर्हि ? विशिष्टमेव । तथा हि-येषु सत्सु समर्थेषु तदन्येषु हेतुषु यस्यैकस्याभावान्न भवति तत्तस्य कारणमिति वर्ण्यते, न तु यस्याभावे यन्न भवतीति व्यतिरेकमात्रम्; अन्यथा मातृविवाहोचितदेशजन्मनः पिण्डखजूरस्य मातृविवाहाभावे सत्यभावप्रसङ्गात्। न चैवम्भूतस्य व्यतिरेकस्य स्पर्शेन व्यभिचारोऽस्ति। तथा हि-यदि रूपादिसन्निधानं प्रदर्श्य स्पर्शस्यैकस्याभावात् 'चक्षुर्विज्ञानं न भवति' इत्येवं प्रदर्येत, तदा स्याद् व्यभिचारः; न [G.64] चैतच्छक्यं प्रदर्शयितुम्, अतो नास्ति कार्यकारणभावलक्षणस्य व्यभिचारः ॥ ११३-११४ ॥
न केवलं बीजादिः कारणत्वेन निश्चितो. भावानाम्, देशकालावपि प्रतिनियतौ निश्चिताविति दर्शयति
नियतौ देशकालौ च भावानां भवतः कथम् ! यदि तद्धेतुता नैषाम्, स्युस्ते सर्वत्र सर्वदा ॥११५॥ क्वचित् कदाचित् कस्मिंश्चिद्भवन्तो नियताः पुनः।
तत्सापेक्षा भवन्त्येते तदन्यपरिहारतः ॥११६॥ यदि हि राजीवादीनां तद्धेतुता=प्रतिनियतदेशकालहेतुता न स्यात्, तदा येयमुपलादिदेशपरिहारेण सलिलादावेव प्रतिनियतदेशे वृत्तिः,या च शिशिरादिसमयपरिहारेण निदाघादिसमये वृत्तिः, सा न प्राप्नोति; किन्तु सर्वत्र देशे काले च ते राजीवादयो भावा भवेयुः; तन्निरपेक्षत्वात् । तदन्यदेशकालपरिहारानियमेन प्रतिनियतदेशादौ वर्तमानास्तत्सापेक्षा भवन्तीति निश्चीयते ॥ १९५-११६॥
ननु निरभिप्रायाणां भावानां केयमपेक्षा? इत्याह१. रूपहेतुतया- पा०, गा०।
२. प्रतिनियते देशे-जै०।