________________
४. स्वाभाविकजगद्वादपरीक्षा आदिशब्दोपात्तस्वभाववादिवादमल्पवक्तव्यतया क्रममनाश्रित्यैव निराकुर्वन्नाह
' सर्वहेतुनिरासंसं भावानां जन्म वर्ण्यते।
. स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ॥११०॥ स्वभाववादस्तु यद्यपि 'आदिशब्देनाहत्य नोपात्तः, तथापि स्वभाववादिमतोपादानात् सूचित एव। तत्र ये 'स्वत एव भावा जायन्ते' इति वर्णयन्ति, ते 'स्वक्रियाया विरोधतः' (तत्त्व० १०७) इत्यादिना निरस्ताः। साम्प्रतं स्वभाववादिनो निरस्यन्ते। त एवमाहुः-न स्वतो नापि परतो भावानां जन्म, किं तर्हि ? सर्वहेतुनिराशंसम्, स्वपरकारणनिरपेक्षमित्यर्थः ।
ननु ये 'स्वत एव भावा भवन्ति' इति वर्णयन्ति, तेभ्य एषां को भेदः? इत्याह-ते हीत्यादि। ते स्वभाववादिनः। स्वमिति स्वरूपम्। अपिशब्दात् पररूपमपि। पूर्वकास्तु स्वभावं कारणमिच्छन्ति, एते तमपि नेच्छन्तीति भेदः ॥ ११० ॥
___ अत्र च युक्तिं वर्णयन्ति यदुपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानसत्ताकम्, ततः प्रेक्षावतामसद्व्यवहारविषयः, यथा-शंशविषाणम्। अनुपलभ्यमानसत्ताकं च भावानां कारणमिति स्वभावानुपलब्धिः । न चायमसिद्धो हेतुरित्यादर्शयन्नाह
राजीवकेसरादीनां वैचित्र्यं कः करोति हि !
मयूरचन्द्रकाद्रि विचित्रः केन निर्मितः !॥१११॥ राजीवम्=पद्मम्, तस्य केसरादय इति विग्रहः। आदिग्रहणान्नालदलकर्णिकादीनां कण्टकतैक्ष्यण्यादीनां च ग्रहणम्। वैचित्र्यमिति। संस्थान-वर्ण-कार्कश्यादिभेदम्। कः करोतीति । नैव कश्चित्। ईश्वरादेः कारणस्यानुपलभ्यमानत्वादिति भावः ॥ १११॥
स्यादेतत्-यदि नाम बाह्यानां भावानां कारणानुपलब्धेरहेतुत्वं सिद्धम् आद्यात्मिकानां तु कथं सिद्धम् ? इत्याह
• यथैव कण्टकादीनां तैक्ष्ण्यादिकमहेतुकम्।
. कादाचित्कतया तद्वद् दुःखादीनामहेतुता ॥११२॥ यदि नाम प्रत्यक्षतो निर्हेतुकत्वं दुःखादीनां न सिद्धम्, तथाप्यनुमानतः [G.63] सिद्धमेव। तथा हि-यत् कादाचित्कं तदहेतुकं निश्चितम्, यथा-कण्टकतैक्ष्ण्यादि। कादाचित्कं च "दुःखादीति स्वभावहेतुः । न चापि यस्य भावाभावयोर्यस्य भावाभावौ नियमेन भवतः, तत् तस्य कारणमिति युक्तम्; व्यभिचारात्। तथा हि-सति स्पर्शे चक्षुर्विज्ञानं भवति, असति च न भवति। अथ च नासौ चक्षुर्विज्ञानकारणम्। तस्माद् कार्यकारणभावलक्षणमेतद्व्यभिचारीत्यतः सिद्धम्-सर्वहेतुनिरासंसं भावानां जन्मेति ॥ ११२ ॥
.. सरोजकेसरादीनामित्यादिना प्रतिविधत्ते
१. तत्त्वसंग्रहस्य मङ्गलश्लोके आदिशब्देनेत्यर्थः। २. स्वभाववादिनतो०-पा०; स्वतोभाववादिमतो०-गा० संस्करणसम्पदाकः। ४. सुखदुःखादीनामित्यर्थः।
५. दुःखादीनीति सर्वत्र पाठः।
३. विरोध-जै०। ६. स्पर्श इत्यर्थः।