________________
. तत्त्वसंग्रहे नाप्यनिष्पन्न इति दर्शयति
अनिष्पन्नात्मतत्त्वस्तु नैव व्याप्रियते क्वचित्।
सर्वशक्तिवियुक्तत्वाद् आकाशकमलादिवत्॥१०९॥ क्वचिदिति सामान्यवचनम्। न स्वात्मभूते, नापि परभूत इत्यर्थः । सति [G.62] व्यापारे निष्पन्नात्मतत्त्व एव स्यात्। एतावन्मात्रलक्षणत्वानिष्पन्नस्येति भावः ॥ १०९॥
इत्युभयपरीक्षा॥