________________
उभयपरीक्षा
तत्सामर्थ्यवियोगे तु नैव तज्जनकं भवेत् ।
अन्यदा शक्तिशून्यत्वाद् वियदम्भोरुहादिवत् ॥ १०४ ॥
अन्यदेति । अभिमंतकार्यारम्भकाले ॥ १०४ ॥ स्यादेतत्-यद्यपि प्रधाने सर्वा शक्तिः सन्निहिता, तथापि योद्भूतवृत्तिर्भवति सैव कारणतां प्रतिपद्यते, नान्या; तेन यौगपद्यं कार्याणां न भविष्यति ? इत्याहउत्कटं शक्तिरूपं च यदि तन्मात्रकारणम् ।
सर्वदा तद्भवेद्धेतोर्नित्यरूपस्य सन्निधेः ॥ १०५ ॥
[G.61] इदं हि 'सत्त्वादीनामुत्कटं रूपं न तावन्नित्यं युक्तं वक्तुम्; कादाचित्कत्वात् । ततश्चास्य भावः कदाचित् प्रकृतीश्वरादेव कारणाद्, अन्यतो वा हेतोः, स्वतन्त्रो वा स्यादिति त्रयो विकल्पाः । तत्र प्रथमे पक्षे तदुत्कटं रूपं सर्वदा भवेत्; प्रकृतीश्वराख्यस्य हेतोर्नित्यरूपत्वेन सदा सन्निहितत्वात् ॥ १०५ ॥
द्वितीयेऽपि पक्षे प्राह
न चापरं परैरिष्टमतो
नैवान्यतोऽपि तत् ।
न हि प्रकृतीश्वरव्यतिरिक्तमपरं कारणमिष्टम्, येनान्यतस्तदुद्भवेत् । नापि तृतीयः पक्षो युक्त इत्याह
नापि स्वतन्त्रमेवेदं कादाचित्कत्वसम्भवात् ॥ १०६ ॥ अथ स्वातंत्र्ये सति कादाचित्कत्वस्य को विरोध: ? इत्याहस्वतोभावे ह्यर्हेतुत्वं,
स्वतः=स्वभावात्, भावे - जन्मनि सति, अहेतुकत्वं नियमतो भवेत् । ननु स्वभावादुत्पद्यमान: कथमहेतुको भवति, यावता स्वभाव एव तस्य हेतुः प्रतीयते ? इत्याहस्वक्रियाया विरोधतः ।
५५
-
स्वस्मिन् रंवरूपे क्रियाया हेतुभावस्य विरोधात् ।
स्यादेंतद्--भवत्वहेतुकत्वम्, तथापि किमिति कादाचित्कत्वं न युज्यते ? इत्याहअपेक्षया हि भावानां कादाचित्कत्वसम्भवः ॥ १०७ ॥ स्वभावान्तरायत्तवृत्तयों हि भावाः कादाचित्का युक्ताः; परभावाभावप्रतिबद्धत्वात् तेषां सदसत्तयीः।- ये पुनरपरायत्तवृत्तय:, तेषामपेक्षणीयस्य कस्यचिदभावात् किमिति कदाचिद्भवेयुः ॥ १०७ ॥
अथ स्वक्रियाविरोध एव कथं सिद्ध: ? इत्याह
तथा हि न स्वभावस्य' स्वात्मनि व्यापृतिर्मता ।
निष्पन्नस्यात्मनोऽप्यस्यामवस्थायां प्रसिद्धितः ॥ १०८ ॥
२. ह्यभावस्य- पा०, गा० ।
आत्मानं हि जनयन् स्वभावो निष्पन्नो वा ? न वा ? न तावन्निष्पन्नः; तस्यामवस्थायामात्मनोऽपि निष्पन्नरूपाव्यतिरेकित्वेन प्रसिद्धेर्निष्पन्नत्वात्, स्वभाववत् । ततश्च जनयसम्भवात् कुत्रासौ भावो व्याप्रियेत ! ॥ १०८ ॥
१. सर्वादीना० पा० ।