________________
तत्त्वसंग्रहे उद्भूतशक्तिरूपेण तमसा युज्यते यदा। प्रलयं सर्वजगतस्तदा किल . करोत्ययम् ॥९९॥ रजःसत्त्वादिरूपादि तदेवं सहकारिणः।
क्रमेणैवास्य वर्तन्ते कार्याणां नाक्रमस्ततः ॥१०० ॥ यद्यपि कारणद्वयमेतन्नित्यसन्निहितम्, तथापि क्रमेणैवाऽमी कार्यभेदाः प्रवर्तिष्यन्ते; यत ईश्वरस्य प्रधानगतास्त्रयो गुणाः सत्त्वादयः सहकारिणः, तेषां च क्रमवृत्तित्वात् तत्कार्येष्वपि क्रमो भवति। तथा हि-यदोद्भूतवृत्तिना रजसा युक्तो भवति महेश्वरः, तदा सर्गहेतुः प्रजानां भवति; प्रसवकार्यत्वाद् रजसः। यदा तु सत्त्वं समुद्भूतवृत्ति संश्रयते, तदा लोकानां स्थितिकारणं भवति; सत्त्वस्य स्थितिहेतुत्वात् । यदा तु तमसोद्भूतशक्तिना समायुक्तो भवति, तदा प्रलयं नाशं सर्वजगतः करोति; तमसः प्रत्ययहेतुत्वात्। यथोक्तम् -
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे। अजाय सर्गस्थितिनाशतन्त्रिणे त्रयीमयाय त्रिगुणात्मने नमः ॥
(काद० १) इति। किलशब्दोऽसम्भावनायाम् ॥ ९७-१०० ॥ . . इहोच्यत इत्यादिना प्रतिविधत्ते
इहोच्यते तयोरेकक्रियाकाले समस्ति किम्।.. तदन्यकार्यनिष्पत्तिसामर्थ्य यदि वा न तत् ॥१०१॥ यद्यस्ति सर्गकालेऽपि द्वयमष्यपरं भवेत्।
एवमन्यस्य सद्भावे द्वयमन्यत्.प्रसज्यते ॥१०२॥ तयोरिति प्रकृतीस्वरयोः । एकक्रियाकाल इति। सर्गस्थितिप्रलयानामन्य-[G.60] तमस्यैकस्य क्रियाकाले तदपरकार्यद्वयोत्पादनसामर्थ्यं किमस्ति? उत नास्ति? इति विकल्पद्वयम्। तत्र यद्यस्ति, तदा सर्गकालेऽविकलंकारणत्वादपरं कार्यद्वयं स्थितिप्रलयात्मकं भवेदुत्पादवत्। एवं स्थितिकालेऽप्युत्पादविनाशौ प्राप्नुतः, प्रलयकाले च स्थित्युत्पादौ स्याताम्। न चैवं युक्तम्; न हि परस्परपरिहारेणावस्थितानामेकत्र धर्मिण्येकदा सद्भावो युक्तः ॥ १०१-१०२॥
स्यादेतत् तदेककार्योत्पादकाले तयोः प्रकृतीश्वरयोरपरकार्यद्वयोत्पादनाय रूपान्तरं न सन्निहितमिति, तेन तदानीं तयोर्न प्रसङ्गः? इत्याह
न हि तत्पररूपेण पुनरन्यस्य कारकम्।
स्वरूपं च तदेवास्य तक्रियाविरतिः कुतः ॥१०३॥ तदिति प्रकृतीश्वराख्यं कारणम्। अन्यस्येति पाश्चात्त्यस्य कार्यद्वयस्य। न पररूपेण, किं तर्हि ? स्वरूपेणैव कारणमिति भावः ॥ १०३ ॥
स्यादेतत्-यद्यपि तत्पररूपेण न कारणम्, तथाप्येकार्योत्पादकाले परिशिष्टकार्यद्वयोत्पत्तये सामर्थ्यमस्य नास्ति, तेन कार्यद्वयस्य तदानीमनुत्पादः ? इत्याह१ . नाशतवे- इति तत्रस्थः पाठः।
२. सर्गकालेष्वविकल०-पा०,गा।