________________
.. 3. उभयपरीक्षा उभयव्यापाररहितत्वप्रतिपादनार्थमाह
प्रकृतीश्वरयोरेवं हेतुत्वप्रतिषेधनात्।
प्रत्येकं सहितं कर्तृ नोभयं जन्मिनामिदम् ॥१४॥ तत्र केचित् साङ्ख्या आहुः-"न प्रधानादेव केवलादमी कार्यभेदाः प्रवर्तन्ते, तस्याचेतनत्वात् । न ह्यचेतनोऽधिष्ठायकमन्तरेण स्वकार्यमारभमाणो दृष्टः । न च पुरुषोऽधिष्ठायको युक्तः; तस्य तदानीमज्ञत्वात्। तथा हि-बुद्ध्यध्यवसितमेवार्थं पुरुषश्चेतयते, बुद्धिसंसर्गाच्च पूर्वमसावज्ञ एव, न जातु किञ्चिदर्थं विजानाति । न चाविज्ञातमर्थं शक्तः कश्चित् कर्तुमिति नासौ कर्ता। तस्मादीश्वर एव प्रधानापेक्षः कार्यभेदानां कर्ता, न केवलः । न हि देवदत्तादिः केवलः पुत्रं जनयति, नापि केवलः कुलालो घटं करोति" इति। तदेतदपि प्रत्येकं प्रकृतीश्वरयोर्हेतुत्वनिषेधात् सहितमपि नेदमीश्वरप्रधानाख्यमुभयं जन्मिनाम्= उत्पत्तिमताम्, कर्तृ= जनकम्-इति सिद्धम् ॥ ९४॥ .....ननु यदि नाम प्रत्येकमनयोः कर्तृत्वं निषिद्धम्, तथापि सहितयोरनिषिद्धमेव, न हि केवलानां चक्षुरादीनां चक्षुर्ज्ञानोत्पत्तिं प्रति सामर्थ्याभावे सहितानामपि न भवति? इत्याशङ्कयाह- .
साहित्यं सहकारित्वादेतयोः कल्पते' च यत्। तत् स्यादतिशयाधानादेकार्थक्रिययापि वा॥१५॥ न युक्ता कल्पनाऽद्यस्य निर्विकारतया तयोः।।
न द्वितीयस्य कार्याणां योगपद्यप्रसङ्गतः ॥१६॥ (G.59] साहित्यं नाम सहकारित्वम् । तच्च द्विविधम्-परस्परातिशयाधानाद्वा स्याद्, एकार्थ
कारित्वाद्वा। . . . तत्र न तावदाद्यस्यतिशयाधानलक्षणस्य सहकारित्वस्य कल्पना युक्ता, कस्मात् ? तयोरीश्वरप्रधानयोर्नित्यत्वेन निर्विकारत्वात्। नापि द्वितीयस्य, कल्पना युक्तेति प्रकृतेन सम्बन्धः । कस्मात् ? कार्याणां यौगपद्यप्रसङ्गात्। अविकलाप्रतिहतसामर्थ्यस्येश्वरप्रधानाख्य कारणस्य सदा सन्निहितत्वेनाविकलकारणत्वात् । अत्र च पूर्ववत् 'यदविकलकारणम्' इत्यादि प्रसङ्गसाधनं वाच्यम् ॥ ९५-९६ ॥ ..अथोच्यत इत्यादिना परमतेन यदविकलकारणम्' इत्यस्य हेतोरसिद्धतामुद्भवयति
अथोच्यते प्रधानस्य त्रिरूपत्वं व्यवस्थितम्। तत्रायं रजसा युक्तः सर्गहेतुर्महेश्वरः ॥९७॥ उद्भूतवृत्तिसत्त्वं तु यदा संश्रयते पुनः।
तदा सर्वस्य लोकस्य स्थितेर्याति निमित्तताम् ॥९८॥ १. शरीरकरणकाले इत्यर्थः।
२. कल्प्यते-पा०; कल्पिते-गा। ३. कारणात्-पा०,गा०।