________________
तत्त्वसंग्रहे परस्परातिशयवृत्तित्वम्। तेन मन्यामहे-'तेषामप्येकस्मिन्नीश्वरे पारतन्त्र्यम्' इति । तत्र यदि 'एत ईश्वराख्येनाधिष्ठिताः' इत्ययमर्थः साधयितुमिष्टः, तदाऽनैकान्तिकता; विपर्यये बाधकप्रमाणाभावात्, प्रतिबन्धासिद्धेः, दृष्टान्तस्य च साध्यविकलता। अथ 'अधिष्ठायकमात्रेण साधिष्ठानाः' इति सांध्यते, तदा सिद्धसाध्यता; यत इष्यत एवास्माभिर्भगवता सम्बुद्धेन सकललोकचूडामणिना सर्वमेव जगत् कारुण्यवशादधिष्ठितम्, यत्प्रभावादद्याप्यभ्युदयनिःश्रेयससम्पदमासादयन्ति साधवः।"
इदं चापरं तेनैव साधनमुक्तम्-"सप्त भुवनान्येकबुद्धिनिर्मितानि; एकवस्त्वन्तरर्गतत्वात्, एकावसथान्तर्गतापवरकवत्। यथैकावसथान्तर्गतानामपवरकाणां सूत्रधारैकबुद्धिनिर्मितत्वं दृष्टम्, तथैकस्मिन्नेव भुवनेऽन्तर्गतानि सप्त भुवनानि, तस्मात्तेषामप्येकबुद्धिनिर्मितत्वं निश्चीयते; यबुद्धिनिर्मितानि चैतानि स भगवान्महेश्वरः सकलभुवनैकसूत्रधारः"( ) इति । तदत्र हेतुरसिद्धः; नैकं भुवनमावस्थादि वाऽस्ति, व्यवहारलाघवा बहुष्वियं संज्ञा कृता । अत एव दृष्टान्तोऽपि साधनविकलः । एकसौधान्तर्गतानामपवरकादीनामनेकसूत्रधारघटितत्वदर्शनाच्चानैकान्तिको हेतुः। एवमन्येष्वपि साधनेषु यथायोगं दूषण वाच्यम्॥ ९२॥ यच्चोक्तम्-“विमतेरास्पदं वस्तु. (तत्त्व०५५) इत्यादि तत्राह
तत्सिद्धौ साधनं प्रोक्तं जैमनीयेषु राजते ॥९३॥ यदि सामान्येन 'अस्ति कश्चित् सर्वज्ञः' इति साध्यते, तदा नास्मान् प्रतीदं [G.58 भवतां साधनं राजते; सिद्धसाध्यतादोषात्। किन्तु ये सर्वज्ञापवादिनो जैमिनीयास्तेष्वेव शोभते अत्रेश्वराख्यः सर्वज्ञः साध्यते, तदा प्रतिबन्धासिद्धेर्हेतोरनैकान्तिकता, दृष्टान्तस्य साध्यविकलतेति- अतो नास्मान् प्रति साधनमेतद्राजत इति भावः।
यच्चापि विचित्रोदय' इत्यादि धर्मिविशेषणमुपात्तम्, तस्य न कश्चिदुपयोगोऽस्ति : केवलं परव्यामोहनाय स्वप्रक्रियाघोषणमिदं क्रियते भवद्भिः । तथा हि-विना धादिविशेषणेनैवंविधेन यदि साधनमसिद्धतादिदोषरहितम्, तदा भवत्येवाभिमतसाध्यसिद्धिः अथासिद्धतादिदोषदुष्टं साधनम्, तदैवंविधविशेषणोपादानेऽपि न साध्यसिद्धिरस्तीति सर्वथ व्यर्थमेव विशेषणम्। यत् पुनर्विपक्षाद्धेतुं व्यावर्त्तयति तदेव विशेषणं न्याय्यम्। किञ्चआश्रयासिद्धो हेतुः । न हि यथोक्तविशेषणविशिष्टो धर्मी प्रसिद्धोऽस्ति प्रतिवादिनः, तस्मात्र शास्त्राप्रसिद्धो धर्मी कर्त्तव्यः ॥ ९३॥
इतीश्वरपरीक्षा॥
१. प्रशस्तमतिनैवेत्यर्थः।
२. साध्यविकलेति-जै०।
३. पूर्व ४१ तमे पृष्ठे।