________________
ईश्वरपरीक्षा तेषामपि तदुद्भूतौ विफला साधनाभिधा।
नित्यत्वादचिकित्स्यस्य नैव सा सहकारिणी॥८९॥ तेषामपि जडप्रत्ययानाम्। तदुद्भूताविति ईश्वरादुद्भूताविष्यमाणायाम्। विफला साधनाभिधा-साधनाभिधानं व्यर्थं स्यात् । ईश्वरादेव तेषामुत्पत्तेरिति भावः । ननु साधनाभिधां सहकारिणीमपेक्ष्य तेषामीश्वरो जनको भविष्यति, न केवलः, तेनासौ विफला न भविष्यति? इत्यत आह-नित्यत्वादित्यदि। यद्यसौ साधनाभिधा तस्येश्वरस्यासमर्थं स्वभावमपनीय समर्थमादधीत, तदा स्यात् सा तस्य सहकारिणी, यावता नित्यत्वादीश्वरोऽनुत्पाद्यानिवर्त्यस्वभावतया न केनचित् किञ्चित् स नीयत' इति न साधनाभिधा तस्यासौ सहकारिणी युक्ता ॥ ९८॥
अपि च यथापरिदृष्टसामर्थ्यसाधनादिकारणव्यतिरेकेणापरिदृष्टसामर्थ्यस्यापीश्वरस्य कारणभावे कल्प्यमानेऽतिप्रसङ्गो भवतां प्राप्नोति; यतस्तमपीश्वरं परिकल्प्यापरमपि ढेट्कषकादिकं कल्पनीयमेव, विशेषाभावादिति दर्शयन्नाह
येषु सत्सु भवदृष्टमसत्सु न कदाचन।
तस्यान्यहेतुताक्लृप्तावनवस्था कथं न ते ॥९०॥ भवदृष्टं यदित्युपस्कार:। अन्यहेतुताक्लृप्ताविति। यथापरिदृष्टसामर्थ्येभ्यो हेतुभ्योऽन्यो हेतुः, तद्भावोऽन्यहेतुता, तस्याः क्लृप्ति:-कल्पनेति विग्रहः ॥ ९०॥
यदुक्तम्-'सर्वकर्तृत्वसिद्धौ च' (तत्त्व० ५४) इत्यादि, तत्राह.: कर्तृत्वप्रतिषेधाच्च सर्वज्ञत्वं निराकृतम्।
. बोद्धव्यं तद्बलेनैव सर्वज्ञत्वोपपादनात् ॥९१॥
सर्वकर्तृत्वबलेनासौ सर्वज्ञो भवद्भिरिष्यते,तेन तन्निराकरणात् सर्वज्ञत्वमपि तस्यायत्नतो निराकृतमेव ॥ ९१॥ .. [G.57] अभ्युपेत्य साधनानामदुष्टत्वं दूषणान्तरमाह
यथोक्तदोषदुष्टानि मा भूवन् साधनानि वा। . ... तथापि कर्तु३कत्वं व्यभिचारोपदर्शनात् ॥९२॥
- एककर्तुरसिद्धौ च सर्वज्ञत्वं किमाश्रयम् ?
यथोक्ता दोषा अनुमानविरोधपर्यन्ताः । अयमत्र समुदायार्थः- यद्यपि तनुगिरिप्रभृतीनामेभ्यः साधनेभ्यो बुद्धिमान् कर्ता सिध्यति, तथाऽप्यसौ य एवैकस्य हेतुः स एवान्यस्यापीति न निश्चित एवेति प्रतिकार्यं भिन्नस्यापि कर्तुः सम्भाव्यमानत्वात् सौधादेश्चैकस्यापि बहुभिः करणेक्षणात्, अतो नैक: कर्ता प्रतिपादयितुं शक्यते। यावच्चैक: कर्ता न सिद्धः, तावत् कुतः सर्वज्ञत्वसिद्धिरिति !
.. अत्र प्रशस्तमतिरेककर्तृत्वसिद्धये प्रमाणयति–“एकाधिष्ठाना ब्रह्मादयः पिशाचान्ताः; परस्परातिशयवृत्तित्वात्। इह येषां परस्परातिशयवृत्तित्वम्, तेणमेकायत्तता दृष्टा, यथेह लोके गृहग्रामनगरदेशाधिपतीनामेकस्मिन् सार्वभौमे नरपतौ । तथा च भुजगरक्षायक्षप्रभृतीनां १-१. वि (चि) कित्सनीय-जै०।
२. यदिति शेष इत्यर्थः।