________________
तत्त्वसंग्रहे यामैश्वर्यविभूतिं विख्याप्य प्राणिनोऽनुग्रहीष्यन् प्रवर्तते;" ( ) इति । अथ वा "शक्तिस्वाभाव्यात्, यथा कालस्य-वसन्तादीनां पर्यायेणाभिव्यक्तौ स्थावरजङ्गमविकारोत्पत्तिः स्वभावतः, तथेश्वरस्याप्याविर्भावानुग्रहसंहारशक्तीनां पर्यायेणाभिव्यक्तौ प्राणिनामुत्पत्तिस्थितिप्रलयहेतुकत्वम्" ( ) इति । तदप्यनेनैव प्रतिविहितम् । तथा हि- 'परानुग्रहार्थं प्रवर्त्तते' इत्यत्रेदमेव प्रतिविधानम्- 'अनुग्रहः परं कुर्यादेकान्ससुखितं जगत्' इत्यादि। 'शक्तिस्वाभाव्यात्' इत्यत्रापीदमेव दूषणम्
सर्गस्थित्युपसंहारान् युगपद्व्यक्तशक्तिकः। . युगपज्जगतः कुर्यान्नो चेत् सोऽव्यक्तशक्तिकः॥ न व्यक्तशक्तिरीशोऽयं क्रमेणाप्युपपद्यते। ....
व्यक्तशक्तिरितोऽन्यश्चेद्भावो ह्येकः कथं भवेत् !॥ इति। कालस्यापि वसन्ताधभिव्यक्तौ पर्यायेण प्रवृत्तावयमेव दोषः । शीततोष्णान्वयभेदभाजस्तु भावा एव हि प्रतिक्षणविनाशिनः काल इत्येतत् पश्चात्. प्रतिपादयिष्यते' ॥१६२-१६३॥ अथ स्वभावतो वृत्तिरित्यादिनोद्दयोतकरमतमाशङ्कते
अथ स्वभावतो वृत्तिः सर्गादावस्य वय॑ते। ... पावकादेः प्रकृत्यैव यथा दाहादिकर्मणि॥१६४॥ यद्येवमखिला भावा भवेयुर्युगपत्ततः।
तदुत्पादनसामर्थ्ययोगिकारणसन्निधेः ॥१६५॥ ___ स ह्याह- "न हि भगवतः क्रीडा प्रवृत्तिः, अपितु यथा पृथिव्यादीनां महाभूतानां स्वभाव एव स तादृशो यत् स्वकार्येषु प्रवृत्तिः, तथेश्वरस्यापि" (न्या० वा० ४.१.२१) तदेतदयुक्तम्; एवं हि सर्वभावानां तद्व्यापारमात्रभाविनां समर्थाविकलकारणसन्निधानाद्युगपदेवोत्पादः स्यात् । न चापि बुद्धिमत्त्वं विशेषणं युक्तमिति पूर्वमेवास्माभिः प्रतिपादितम् ॥ १६४-१६५॥ यद्येवम्, पावकादिकार्याणामपि किं न यौगपद्यं भवति? इत्याह
स्वहेतुबलसम्भूता नियता एव शक्तयः। असर्वकालभाविन्यो ज्वलनादिषु वस्तुषु॥१६६॥ अन्यथा यौगपद्येन सर्वं कार्यं समुद्भवेत्।।
तेषामपि न चेदेष नियमोऽभ्युपगम्यते॥१६७॥ [G.79] तेषामिति पावकादीनाम्। न केवलमीश्वरस्येत्यपिशब्दः । एष नियमइति स्वहेतुबलसम्भवकृतः ॥ १६६-१६७॥
स्यादेतत्- ऊर्णनाभः स्वभावतः प्रवृत्तः किमिति स्वकार्याणि जालादीनि युगपन्न करोति? इत्याह
प्रकृत्यैवांशुहेतुत्वमूर्णनाभेऽपि नेष्यते। १. दव्यपदार्थपरीक्षान्तर्गतकालपरीक्षायामिति शेषः।