________________
४
तत्त्वसंग्रहे व्यभिचारश्च तेनैव तस्यापि क्रमवृत्तितः ॥८३॥ सर्वभावानामुदयसमनन्तरापवर्गितया क्षणमात्रमपि न स्थितिरस्तीति कुतः स्थित्वा प्रवृत्तिर्भविष्यति! तस्मात् प्रतिवाद्यसिद्धो हेतुः। अनैकान्तिकश्च तेनैवेश्वरेण; यत ईश्वरः क्रमवत्सु कार्येषु स्थित्वा प्रवर्तते। अथ च नासौ चेतनावदधिष्ठितः, अनवस्थाप्रसङ्गात्।
अथ 'अचेतनत्वे सति' इति सविशेषणो हेतुः क्रियते, यथा प्रशस्तमतिना कृतः? तथापि सन्दिग्धविपक्षव्यावृत्तिकतयाऽनैकान्तिकत्वमनिवार्यमेव । यदेव हि विशेषणं विपक्षाद्धेतुं निवर्तयति तदेव न्याय्यम्, यत् पुनर्विपक्षे सन्देहं न व्यावर्तयति तदुपात्तमप्यसत्कल्पमेव। पूर्वोक्तश्चासिद्धतादिदोषः सविशेषणत्वेऽपि तदवस्थ एव ॥ ८३॥ यच्चोक्तम्-'सर्गादौ व्यवहारश्च' (तत्त्व० ५१. का०) इत्यादि, तत्राह- [G.53]
प्रलये लुप्तविज्ञानस्मृतयः पुरुषा न नः।
आभास्वरादिसम्भूतेस्तत एवेह सम्भवात्॥८४॥. . . 'उत्तरकालं प्रबुद्धानाम्' इत्येतद् विशेषणमसिद्धम्। तथा हि-नास्मन्मतेन प्रलयकाले प्रलुसज्ञानस्मृतयो वितनुकरणाः पुरुषाः सन्तिष्ठन्ते, किन्त्वाभास्वरादिषु स्पष्टज्ञानातिशययोगिषु देवनिकायेषूत्पद्यन्ते; ये तु प्रतिनियतनिरयादिविपाकसंवर्तनीयकर्माणः, ते लोकधात्वन्तरेषूत्पद्यन्त इति विवर्त्तकालेऽपि तत एवाभास्वरादेश्चयुत्वा इहालुप्तज्ञानस्मृतय एव सम्भवन्ति। तस्मात् 'उत्तरकालं प्रबुद्धानाम्' इति विशेषणमसिद्धम्। अनैकान्तिकश्च हेतुः; सन्दिग्धविपक्षाव्यावृत्तिकत्वात्।
किञ्च-अन्योपदेशपूर्वकत्वमात्रे साध्ये सिद्धसाध्यता, अनादेर्व्यवहारस्य सर्वेषामेवान्योपदेशपूर्वकत्वस्येष्टत्वात् । अथेश्वरलक्षणपुरुषोपदेशपूर्वकत्वं साध्यते, तदाऽनैकान्तिकत्वम्। अन्यथाऽपि व्यवहारसम्भवाद् दृष्टान्तस्य साध्यविकलता। एतच्च पूर्वमेव सामान्य दूषणमुक्तम् ॥ ८४॥ विरुद्धश्च हेतुः, अभ्युपेतबाधा च प्रतिज्ञाया इति दर्शयन्नाह
विमुखस्योपदेष्टत्वं श्रद्धागम्यं परं यदि!
वैमुख्यं वितनुत्वेन धर्माधर्मविवेकतः ॥८५॥ यदीश्वरोपदेशपूर्वकत्वं व्यवहारस्य सम्भवेत्, तदा स्यादविरुद्धता हेतोः; यावताऽसौ 'विगतमुखत्वादुपदेष्टा न युक्तः। तच्च विमुखत्वं वितनुत्वेन, शरीरविरहादित्यर्थः। तच्च विगततनुत्वमस्य कथं सिद्धम् ? इत्याह-धर्माधर्मविवेकत इति। शरीरकारणधर्माधर्मविरहादित्यर्थः । तथा चोयोतकरेणोक्तम्- "यथा बुद्धिसत्तायामीश्वरस्य प्रमाणसम्भवो नैवं धर्मादिसत्त्वे प्रमाणमस्ति" ( ) इति । तस्मादीश्वरस्योपदेष्टुत्वासम्भवात्तदुपदेशकत्वं व्यवहारस्य न सिध्यति, किन्त्वीश्वरव्यतिरिक्तान्यपुरुषोपदेशपूर्वकत्वम् अत इष्टविघातकारित्वाद् विरुद्धो हेतुः । अथेश्वरस्योपदेष्टुत्वमङ्गीक्रियेत? तदा विमुखत्वमभ्युपेतं हीयत इत्यभ्युपेतबाधा।
___ 'महाभूतादिकं व्यक्तम्' (तत्त्व० ५२) इत्यादौ तु प्रयोगे हेतूनां पूर्ववदनेकान्तिकत्वम्; १.क्रमवृत्तिता-पा०, गा०। २. विमत-पा०।