________________
४७
ईश्वरपरीक्षा अवयविनो विस्तरेण प्रतिषेत्स्यमानत्वात् प्रतिषिद्धत्वाच्चेत्यतः कुलालादेरणूनामेन कारकत्वं प्रसिद्धम्। अतो बुद्धिमत्पूर्वकत्वं साध्यधर्मोऽणुभ्यो वैधhण प्रकाशितेभ्यो न व्यावृत्त इत्यव्यावृत्तसाध्यधर्मता दोषो वैधर्म्यदृष्टान्तस्य॥
स्यादेतत्-यद्यस्माभिर्विशेषः साधयितुमिष्टः स्यात्, तदा साध्यविकलता साधर्म्यदृष्टान्तस्य पूर्वोक्ता स्यात्; यावता सामान्येन बुद्धिमत्पूर्वकत्वमानं साध्यते, तस्मिश्च सिद्धे तन्वादीनां सामर्थ्यादीश्वरः कर्ता सिध्यति; न हि घटादिवत्तेषां कुलालादिः कर्ता सम्भवति, तेन सामान्यस्य विशेषविशिष्टत्वात्; 'तन्वादिषु चान्यस्य कर्तुरसम्भाव्यमानत्वात्, सामर्थ्याद्विशेषपरिग्रहमन्तरेणापीश्वर एव कर्ता अमीषां सिध्यति? इत्याह
बुद्धिमत्पूर्वकत्वं च सामान्येन यदीष्यते।
तत्र नैव विवादो नो वैश्वरूप्यं हि कर्मजम्॥८०॥ एवं हि सिद्धसाध्यतादोषः। कस्मात् ? इत्याह-वैश्वरूप्यं हीत्यादि। वैश्वरूप्यम् सत्त्वभाजनलोकस्य वैचित्र्यम्। कर्मजमिति । साधारणासाधारणशुभाशुभकर्मजनितम्। अतः शुभाशुभकर्मकारिणः पुरुषा बुद्धिमन्तोऽस्य कारणतामापद्यन्त इति सिद्धसाध्यता॥ ८०॥ विशेषेण तर्हि साध्यत इति चेत् ?. आह- .
नित्यैकबुद्धिपूर्वत्वसाधने साध्यशून्यता।
व्यभिचारश्च सौधादेर्बहुभिः करणेक्षणात् ॥८१॥ [G.52] एतच्च पूर्वमुक्तमपि निगमनार्थं पुनरभिहितम्। एका बुद्धिरस्येत्येकबुद्धिः, नित्यश्वासावेकबुद्धिश्चेति विग्रहः । यद्वा-नित्यैका बुद्धिरस्येति समासः । साध्यशून्यतेत । साधर्म्यदृष्टान्तस्येति शेषः । व्यभिचारश्चेति। हेतोरित्यध्याहारः । कथमित्याह ? सौधेत्यादि । ८१ ॥
यच्चोक्तम्-तन्वादीनाम्' (तत्त्व० ४९) इत्यादि, तत्राह___ एतदेव “यथायोगमवशिष्टेषु हेतुषु।
. योज्यं दूषणमन्यच्च किञ्चिन्मात्रं प्रकाश्यते॥८२॥ तत्रापि हि 'रूपादिमत्त्वात्' इत्यादिसाधनेष्वेतदेव हि यथासम्भवं दूषणं वाच्यम्। एतदेवेति । असिद्धत्वम्, प्रतिबन्धाभावाद् व्यभिचारः, सति प्रतिबन्धे विरुद्धत्वम्, साध्यवैकल्यम्, सामान्येन सिद्धसाध्यतेत्यादि । तथा हि-तत्रापि यादृशं रूपादिमत्त्वं चेतनावदधिष्ठितं तादृशं 'तन्वादिषु न सिद्धम्। रूपादिमत्त्वमात्रस्य प्रतिबन्धासिद्धेर्व्यभिचारः। प्रतिबन्धाभ्युपगमे सति इष्टविपरीतसाधनाद् विरुद्धत्वम्। साधर्म्यदृष्टान्तस्य साध्यविकलता; नित्यैकचेतनाधिष्ठितत्वेन साध्यधर्मेणान्वयासिद्धेः। सामान्येन सिद्धसाध्यता; विशेषेण व्यभिचारो घटादिष्वन्यथादर्शनादिति। एवमन्येष्वपि हेतुषु योज्यम् ॥ ८२ ॥ यच्च ‘स्थित्वा प्रवृत्तेः' (तत्त्व० ५०) इति साधनमुक्तम्, तत्राधिकं दूषणमाह
स्थित्वा प्रवृत्तिरण्वादेर्न सिद्धा क्षणभङ्गतः। १.तर्वादीनाम्-पा०,गा।
२. तर्वादिषु-पा०,गा०। ३.तर्वादीनाम्-पा०,गा। .
४.यथायोग्य०-पा०,गा०/ ५. तर्वादिषु-पा०, गा०/