________________
तत्त्वसंग्रहे ननु च विपर्यये प्रतिबन्धसद्भावे सति विरुद्धः स्यात् । अस्य च 'बुद्धिमत्पूर्वकत्वमात्रेऽपि न प्रतिबन्धोऽस्ति, तत्कथं तद्विशेषे स्यात्? इत्याह
.बुद्धिमद्धेमात्रे हि प्रतिबन्धस्त्वयोदितः।
द्वितीये पुनरस्माभिर्विस्पष्टमभिधीयते॥५॥ __ त्वयेश्वरवादिना बुद्धिमद्धेतुमाने प्रतिबन्धो वर्णितः । अन्यथा सामान्येनापिं प्रतिबन्धासिद्धौ कथमीश्वरहेतुकत्वं भावानां सिध्येत् ! तस्माद्भवदभिप्रायतो बुद्धिमत्पूर्वकत्वमात्रस्य सिद्धस्य सिद्धत्वमभ्युपेत्य, भवदभिमतात् साध्यविशेषाद्यदेतद् द्वितीयमनित्यानेकविज्ञानपूर्वकत्वलक्षणमिष्टविपरीतसाध्यम्, तस्मिन् द्वितीये साध्यविशेषेऽस्माभिर्हेतोर्विस्पष्टं प्रतिबन्धोऽभिधीयते॥ ७५ ॥ कथमसौ विस्पष्टमभिधीयते? इत्याह- .
क्रमाकमविरोधेन नित्या नो कार्यकारिणः। नहीश्वरादयो नित्यभावाः कार्यकारिण; नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्। तस्मादनित्या एवार्थक्रियाकारिणः । ते च प्रतिक्षणमपरापरस्वभावा भवन्तीति सिद्धमनित्यत्वमनेकत्वं च बुद्धिमतः कर्तुः । यच्चापीश्वरस्य नित्यैकबुद्ध्युपेतत्वं प्रतिज्ञातं तदप्यनुमानविरुद्धमिति दर्शयन्नाह
विषयाणां क्रमित्वेन तज्ज्ञानेष्वपि च क्रमः॥७६॥ क्रमभावीत्यादिना प्रमाणयति-.
क्रमभावीश्वरज्ञानं क्रमिविज्ञेयसङ्गतेः।
देवदत्तादिविज्ञानं यथा ज्वालादिगोचरम्॥७७॥ यत् क्रमिविज्ञेयविषयं ज्ञानं तत् क्रमभावि, यथा-देवदत्तादिविज्ञानं [G.51] ज्वालादिगोचरम्। क्रमिविज्ञेयविषयं चेश्वरज्ञानमिति स्वभावहेतुः। प्रसङ्गसाधनं चेदम्, तेनाश्रयासिद्धता हेतो शङ्कनीया। सामान्यादिपदार्थविषयं देवदत्तादिविज्ञानं साधनधमविकलमिति ज्वालादिगोचरमुदाहृतम्।
किं पुनरत्न बाधकं प्रमाण्? उच्यते; यदि क्रमवता विषयेण तदीश्वरज्ञानं स्वनिर्भासमुपजन्येत, तदा सिद्धमेव क्रमित्वम्। अथ न जन्येत; तदा प्रत्यासत्तिनिबन्धनाभावान्न तज्जानीयात्, विषयमन्तरेणापि भवतः प्रामाण्यं वा अभ्युपगतं हीयेत, नष्टाजाते च विषये निर्विषयत्वप्रसङ्गः स्यादिति-इदमत्र बाधकं प्रमाणम्॥७७॥ । यच्चोक्तम्-"वैधhणाणवो मताः" (तत्त्व० ४८) इति, तदपि वैधर्योदाहरणनिवृत्तसाध्यधर्मकमित्यादर्शयेन्नाह
अणुसंहतिमात्रं च घटादयस्माभिरिष्यते। तत्कारकः कुलालादिरणूनामेव कारकः ॥७८॥ न व्यावृत्तस्ततो धर्मः साध्यत्वेनाभिवाञ्छितः।
अणूदाहरणादस्माद् वैधयेण प्रकाशितमत् ॥ ७९ ॥ १. ० पूर्वकमात्रे-पा०, गा०।
. २. यदमीश्वरस्य-पा०, गा०। ,