________________
४५
ईश्वरपरीक्षा सामान्यप्रतिबन्धे तु विशेषाश्रयणी यदा।
चोदना क्रियते तत्र जात्युत्तरमुदाहृतम्॥६९॥ साध्येन सह सामान्येन साधनधर्मस्य विपक्षे बाधकप्रमाणवृत्त्या प्रतिबन्धे सिद्धेऽपि सति यत्र धर्मविशेषमाश्रित्य चोदना क्रियतें, तज्जात्युत्तरम्। न चेह सामान्येन प्रतिबन्धः सिद्धः, यस्य तु सनिवेशविशेषप्रतिबन्धोऽस्ति सोऽसिद्ध इति न जात्युत्तरमेतत्॥ ६९॥ अथाप्रतिबद्धमपि सामान्यं गमकं स्यात्, तदातिप्रसङ्गः स्यादिति दर्शयन्नाह
गोशब्दवाच्यतामात्राद् 'वज्रादीनां विषाणिता।
संसिध्येदन्यथा ह्येष न्यायो नाश्रीयते यदि॥७०॥ एवं हि स्वर्ग-दिग्वचन-लोचन-किरण-कुलिश-भू-पयसामपि गोशब्दाभिधेयतामात्राद् बाहुलेयादिवद् विषाणवत्तानुमानप्रसङ्गः ॥७०॥
स्यादेतत्-कृतकत्वादिवदस्यापि. सन्निवेशविशिष्टत्वस्य बुद्धिमत्कारणपूर्वकत्वेन प्रतिबन्धोऽस्त्येव? इत्याह
यदि तु प्रतिबन्धोऽस्मिन्प्रमाणे नोपपद्यते! .. तदत्र युक्तित: सिद्धे न विवादोऽस्ति कस्यचित्॥१॥ किन्तु स एव प्रतिबन्धो न सिद्ध इति दर्शयन्नाह
किन्तु नित्यैकसर्वज्ञनित्यबुद्धिसमाश्रयः।
साध्यवैकल्यतोऽव्याप्तेन सिद्धिमुपगच्छति॥७२॥ न हि भवतां बुद्धिमत्पूर्वकत्वमानं साधयितुमिष्टम्, किन्तु नित्य एकः, सर्वज्ञाया बुद्धेर्नित्यायाः समाश्रयः सकलभुवनहेतुर्बुद्धिमानीश्वराभिधानो यः पदार्थः, तत्पूर्वकत्वमस्य साधयितुमिष्टम्; तस्यैव विवादास्पदीभूतत्वात्। स च तथाभूतो न सिद्धिमुपगच्छति।कस्मात्? साध्यवैकल्यतोऽव्याप्तेः । घटादेः साधर्म्यदृष्टान्तस्य यथोक्तसाध्यर्मवैकल्यात् तथाभूतेन साध्यधर्मेण हेतोर्व्याप्त्यसिद्धेः । न हि यथोक्तसाध्यधर्मेण क्वचिद् दृष्टान्ते हेतोः प्रतिबन्धोऽस्तीति यावत्॥७२॥ [G.50] तदेव दर्शयन्नाह
तथा हि सौधसोपानगोपुराट्टालकादयः।
अनेकानित्यविज्ञानपूर्वकत्वेन निश्चिताः॥७३॥ किञ्च- न केवलमसिद्धोऽनैकान्तिकश्च हेतुः; अपि तु विरुद्धोऽपीति दर्शयति
अत एवायमिष्टस्य विघातकृदपीष्यते ।
अनेकानित्यविज्ञानपूर्वकत्वप्रसाधनात्॥७४॥ अत एवेतिसाध्यविपरीतधर्मव्याप्तितः। न केवलं पूर्वोक्तेन विधिनासिद्धोऽनैकान्तिकश्चेत्यपिशब्देनाह ॥ ७४॥
.
२. आश्रय:-पा०गा०। ४.०पीच्यते-पा०।
१. दिगादीनां- पा०, गा०। ३. साधर्म्यवै०-पा०, गा०।