________________
४४
तत्त्वसंग्रहे यद्येवम्, इहापि तथैव भविष्यति? इत्याह
सनिवेशविशेषस्तु नैवामीषु तथाविधः।
तनुतर्वादिभेदेषु शब्द एव तु केवलः॥६४॥ यस्तर्हि शब्दसामान्यतः सिद्ध सनिवेशः, स एव हेतुर्भविष्यतीति चेद्? आह
तादृशः प्रोच्यमानस्तु सन्दिग्धव्यतिरेकताम्।
आसादयति वल्मीके कुम्भकारकृतादिषु॥६५॥ तादृशः=शब्दमात्रेणाभेदी। कुम्भकारकृताविवेति। मृद्विकारत्वमात्रमिति शेषः । तदेवं सन्निवेशविशेषस्यासिद्धिः, सन्निवेशमात्रस्य त्वनैकान्तिकत्वमिति प्रतिपादितं भवति ॥६५॥ नन्क्त्यिादिना परो जात्युत्तरमुद्भावयति
ननु जात्युत्तरमिदं धर्मभेदविकल्पनात्।
सामान्यमेव कार्यादि साधनं प्रतिपादितम् ?॥६६॥ . . . कार्यसमं जात्युत्तरमेत्तत् । यथा हि-'कृतकत्वादनित्यः शब्दः' इत्युक्ते जातिवादी चोदयति-किमिदं घटादिगतं कृतकत्वं हेतुत्वेनोपादीयते? किं वा शब्दगंतम्? अथोभयगतमिति? आद्ये पक्षे हेतोरसिद्धिः, न ह्यन्यधर्मोऽन्यत्र विद्यते। द्वितीयेऽपि साधनविकलो दृष्टान्तः । तृतीयेऽप्येतावेव दोषाविति। एतच्च कार्यसमं नाम जात्युत्तरमिति प्रतिपादितम्। यथोक्तम्- "कार्यात्वान्यत्वलेशेन यत्साध्यासिद्धिदर्शनं तत्कार्यसमम्" (द्र०-न्या० द० ५.१.३७) इति । यतः कार्यत्वसामान्यमेव गृहीत्वानित्यत्वानुमानमिष्यते, न विशेषम्। तेन सामान्येन साधनेऽभीष्टे धर्मविशेषविकल्पे यदुत्तरं तत्कार्यसमं जात्युत्तरमिति व्यवस्थितम्। एतच्च धर्मभेदेन विकल्पनम्, अतो जात्युत्तरमिति ॥६६॥ अतद्रूपेत्यादिना परिहरति
अतद्रूपपरावृत्तं वस्तुमात्रमनित्यताम्।
तादात्म्यात् साधयत्येष न न्यायोऽस्तीह साधने॥६७॥ युक्तमेतत्; यतः कृतकत्वमात्रमनित्यता साधयति, तस्य तादात्म्यलक्षणप्रतिबन्धसद्भावादिति। इह तु स्वारम्भकावयवसन्निवेशविशिष्टत्वमात्रसाधने नायं न्यायोऽस्ति; सनिवेशसामान्यस्य विपर्यये बाधकाभावात् प्रतिबन्धासिद्धेः । यस्य तदुत्पत्तिलक्षणः प्रतिबन्धः सिद्धः, यदुपलभ्भादक्रियादर्शिनोऽपि कृतबुद्धिर्भवति तस्यासिद्धेरिति भावः ॥ ६७॥
___ अथ तदुत्पत्त्या प्रतिबन्धविशेषं परित्यज्य सामान्यमेव लिङ्गमुच्यते, तदा व्यभिचारितेति दर्शयन्नाह
धूमात्मा धवलो दृष्टः पावकाव्यभिचारवान्।
सिताभिधेयतामात्रान्न हिमादपि तद्गतिः॥६८॥ धूमात्मा धवलः पदार्थोऽग्न्यविनाभावी दृष्ट इति। एतावता न हिमादपि शुक्लशब्दवाच्यतामात्रसामान्यात् तस्य पावकस्यावगतिर्भवति ॥ ६८॥ .. [G.49) कथं तर्हि कार्यसमं जात्युत्तरमुदाहृतम् ? इत्याह- . १. ० मनित्यतां-गा।
२-२. पाठोऽयं पा०, गा० पुस्तकयो स्ति।